Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 124
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
14
इ꣣दं꣡ व꣢सो सु꣣त꣢꣫मन्धः꣣ पि꣢बा꣣ सु꣡पू꣢र्णमु꣣द꣡र꣢म् । अ꣡ना꣢भयिन्ररि꣣मा꣡ ते꣢ ॥१२४॥
स्वर सहित पद पाठइ꣣द꣢म् । व꣣सो । सुत꣢म् । अ꣡न्धः꣢꣯ । पि꣡ब꣢꣯ । सु꣡पू꣢꣯र्णम् । सु । पू꣣र्णम् । उद꣡र꣢म् । उ꣣ । द꣡र꣢꣯म् । अ꣡ना꣢꣯भयिन् । अन् । आ꣣भयिन् । ररिम꣢ । ते꣣ ॥१२४॥
स्वर रहित मन्त्र
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनाभयिन्ररिमा ते ॥१२४॥
स्वर रहित पद पाठ
इदम् । वसो । सुतम् । अन्धः । पिब । सुपूर्णम् । सु । पूर्णम् । उदरम् । उ । दरम् । अनाभयिन् । अन् । आभयिन् । ररिम । ते ॥१२४॥
सामवेद - मन्त्र संख्या : 124
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 1;
Acknowledgment
विषयः - वयं विद्वांसमतिथिं परमात्मानं चोपहारेण सत्कुर्म इत्याह।
पदार्थः -
हे (वसो) सद्गुणानां वासयितः अतिथे परमात्मन् वा, त्वम् (इदम्) एतद् अस्माभिः समर्प्यमाणम्, (सुतम्) अभिषुतम्, सज्जीकृतम् (अन्धः) अन्नं श्रद्धारसं वा। अन्धः इत्यन्ननामसु पठितम्। निघं० २।७ अदेर्नुम् धौ च उ० ४।२०७ इति अद् भक्षणे धातोः असुन् प्रत्ययो, नुमागमो, धकारादेशश्च। (सुपूर्णम् उदरम्) उदरम् सुष्ठु पूर्णं यथा स्यात् तथा (पिब) आस्वादय। संहितायाम् द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति दीर्घः। हे (अनाभयिन्२) निर्भय ! वयं (ते) तुभ्यम् (ररिम) प्रयच्छामः। रा दाने। छन्दसि लुङ्लङ्लिटः। अ० ३।४।६ इति लडर्थे लिट्। संहितायाम् अन्येषामपि दृश्यते अ० ६।३।१३७ इति दीर्घः ॥१०॥
भावार्थः - यथा कश्चिद् विद्वानतिथिरस्माभिः प्रदीयमानमन्नरसघृतदुग्धादिकं सुपूर्णमुदरं पिबति तथैव हे परमात्मन् ! त्वमस्माभिः श्रद्धया विनिवेद्यमानं भक्तिरसं कणेहत्य पिब। अत्र अकायस्य मुखोदरादिरहितस्यापि परमेश्वरस्य विषये सुपूर्णमुदरं पिब’ इति व्याहार आलङ्कारिक एव ॥१०॥ अत्र परमात्मनः स्तुतिगानार्थं प्रेरणात्, ततः सुखप्रार्थनात्, तन्महिमवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति वेदितव्यम् ॥ इति द्वितीये प्रपाठके प्रथमार्धे तृतीया दशतिः। इति द्वितीयाध्याये प्रथमः खण्डः ॥
टिप्पणीः -
१. ऋ० ८।२।१, साम० ७३४। २. आ समन्ताद् बिभेति आभयी, बिभेतेरौणादिक इनिः, न आभयी अनाभयी, तादृशः—इति सा०।