Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1246
ऋषिः - उशना काव्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

त्वं꣡ य꣢विष्ठ दा꣣शु꣢षो꣣ नॄ꣡ꣳपा꣢हि शृणु꣣ही꣡ गिरः꣢꣯ । र꣡क्षा꣢ तो꣣क꣢मु꣣त꣡ त्मना꣢꣯ ॥१२४६॥

स्वर सहित पद पाठ

त्वम् । य꣣विष्ठ । दाशु꣡षः꣢ । नॄन् । पा꣣हि । शृणुहि꣢ । गि꣡रः꣢꣯ । र꣡क्ष꣢꣯ । तो꣣क꣢म् । उ꣣त꣢ । त्म꣡ना꣢꣯ ॥१२४६॥


स्वर रहित मन्त्र

त्वं यविष्ठ दाशुषो नॄꣳपाहि शृणुही गिरः । रक्षा तोकमुत त्मना ॥१२४६॥


स्वर रहित पद पाठ

त्वम् । यविष्ठ । दाशुषः । नॄन् । पाहि । शृणुहि । गिरः । रक्ष । तोकम् । उत । त्मना ॥१२४६॥

सामवेद - मन्त्र संख्या : 1246
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
प्रथमः—परमात्मपक्षे। हे (यविष्ठ) युवतम, तद्वच्छक्तिसम्पन्न परमात्मन् ! (त्वम् दाशुषः) आत्मसमर्पकान् (नॄन्) उपासकान् जनान् (पाहि) पालय, तेषाम् (गिरः) स्तुतिवाचः (शृणुहि) शृणु। [अत्र ‘उतश्च प्रत्ययाच्छन्दो वा वचनम्। अ० ६।४।१०६ वा०’ इत्यनेन छन्दसि हेर्लुको विकल्पविधानात् हेर्लुक् न, संहितायाम् ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः।] (उत) अपि च (त्मना) आत्मना (तोकम्) तेषां सद्विचाररूपं सन्तानम् (रक्ष) शत्रुभ्यः त्रायस्व। [संहितायां ‘नॄँ पाहि’ इत्यत्र ‘नॄन् पे’ अ० ८।३।१० इत्यनेन नकारस्य रुत्वम्। ‘अत्रानुनासिकः पूर्वस्य तु वा’ अ० ८।३।२ इत्यनेन पूर्वस्यानुनासिकः] ॥ द्वितीयः—नृपतिपक्षे। हे (यविष्ठ) अतिशयेन तरुण राजन् ! (त्वम् दाशुषः) विद्यादातॄन् धनदातॄन् वा (नॄन्) मनुष्यान् (पाहि) रक्ष, (गिरः) विदुषां वाचः (शृणुहि) शृणु, (उत) अपि च (त्मना) आत्मना (तोकम्) युद्धे मृतानां सैनिकानामपत्यम् (रक्ष) पालय ॥३॥२

भावार्थः - जगदीश्वरः स्वोपासकान् पालयति रक्षति च। तथैव नृपतिना द्वे कर्मणी अवश्यं कर्तव्ये, एकं विदुषां पालनं तदुपदेशश्रवणं च, द्वितीयं युद्धे हतानां सैनिकानामपत्यपत्न्यादिपालनञ्च ॥३॥

इस भाष्य को एडिट करें
Top