Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1253
ऋषिः - पराशरः शाक्त्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
5
अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ वि꣢꣫धर्म꣣न् ज꣡न꣢य꣣न्प्र꣡जा भु꣢꣯वनस्य꣣ गो꣢पाः । वृ꣡षा꣢ प꣣वि꣢त्रे꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ बृ꣣ह꣡त्सोमो꣢꣯ वावृधे स्वा꣣नो꣡ अद्रिः꣢꣯ ॥१२५३॥
स्वर सहित पद पाठअ꣡क्रा꣢꣯न् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । प्र꣣थमे꣢ । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । जन꣡य꣢न् । प्र꣣जाः꣢ । प्र꣣ । जाः꣢ । भु꣡व꣢꣯नस्य । गो꣣पाः꣢ । गो꣣ । पाः꣢ । वृ꣡षा꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । बृ꣣ह꣢त् । सो꣡मः꣢꣯ । वा꣣वृधे । स्वानः꣢ । अ꣡द्रिः꣢꣯ । अ । द्रिः꣣ ॥१२५३॥
स्वर रहित मन्त्र
अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य गोपाः । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥१२५३॥
स्वर रहित पद पाठ
अक्रान् । समुद्रः । सम् । उद्रः । प्रथमे । विधर्मन् । वि । धर्मन् । जनयन् । प्रजाः । प्र । जाः । भुवनस्य । गोपाः । गो । पाः । वृषा । पवित्रे । अधि । सानौ । अव्ये । बृहत् । सोमः । वावृधे । स्वानः । अद्रिः । अ । द्रिः ॥१२५३॥
सामवेद - मन्त्र संख्या : 1253
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ५२९ क्रमाङ्के परमात्मपर्जन्ययोर्विषये व्याख्याता। अत्र पुनः परमात्मविषय उच्यते।
पदार्थः -
अस्यैव सोमस्य परमात्मनः शासने (समुद्रः) आदित्यः।[समुद्र आदित्यः इति निरुक्तम् १३।१६।] (परमे) उच्चे (विधर्मणि) विशेषेण धारके द्युलोके (अक्रान्) क्राम्यति, स्वधुरि भ्रमति, यः आदित्यः (प्रजाः जनयन्) प्रजाः उत्पादयन् (भुवनस्य) सौरमण्डलस्य (गोपाः) रक्षकोऽस्ति। (पवित्रे) अन्तरिक्षे। [अन्तरिक्षं वै पवित्रम्। काठ० २६।१०।] (अव्ये सानौ अधि) पार्थिवे उन्नतप्रदेशे च (वृषा) वृष्टिकर्ता, (स्वानः) सुवानः, भूम्यादिलोकान् स्वस्वकक्षायां सूर्यं परितः प्रेरयन् (अद्रिः) अविनश्वरः (सोमः) जगत्स्रष्टा परमात्मा (बृहत्) बहु (वावृधे) महिमानमाप्नोति। [वृधु वृद्धौ, लिटि ‘तुजादीनां दीर्घोऽभ्यासस्य।’ अ० ६।१।७ इत्यभ्यासदीर्घः] ॥१॥
भावार्थः - परमेश्वर एव स्वमहिम्ना सूर्यं तं परितो भूमिचन्द्रादीन् ग्रहोपग्रहांश्च भ्रामयति ॥१॥
टिप्पणीः -
१. ऋ० ९।९७।४० ‘गोपाः’ इत्यत्र ‘राजा॑’ ‘स्वानो अद्रिः’ इत्यत्र ‘सुवान इन्दुः॑’। साम० ५२९।