Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1255
ऋषिः - पराशरः शाक्त्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
7

म꣣ह꣡त्तत्सोमो꣢꣯ महि꣣ष꣡श्च꣢कारा꣣पां꣡ यद्गर्भोऽवृ꣢꣯णीत दे꣣वा꣢न् । अ꣡द꣢धा꣣दि꣢न्द्रे꣣ प꣡व꣢मान꣣ ओ꣡जोऽज꣢꣯नय꣣त्सू꣢र्ये꣣ ज्यो꣢ति꣣रि꣡न्दुः꣢ ॥१२५५॥

स्वर सहित पद पाठ

म꣣ह꣢त् । तत् । सो꣡मः꣢꣯ । म꣣हिषः꣢ । च꣣कार । अ꣣पा꣢म् । यत् । ग꣡र्भः꣢꣯ । अ꣡वृ꣢꣯णीत । दे꣣वा꣢न् । अ꣡द꣢꣯धात् । इ꣡न्द्रे꣢꣯ । प꣡व꣢꣯मानः । ओ꣡जः꣢꣯ । अ꣡ज꣢꣯नयत् । सू꣡र्ये꣢꣯ । ज्यो꣡तिः꣢꣯ । इ꣡न्दुः꣢꣯ ॥१२५५॥


स्वर रहित मन्त्र

महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥१२५५॥


स्वर रहित पद पाठ

महत् । तत् । सोमः । महिषः । चकार । अपाम् । यत् । गर्भः । अवृणीत । देवान् । अदधात् । इन्द्रे । पवमानः । ओजः । अजनयत् । सूर्ये । ज्योतिः । इन्दुः ॥१२५५॥

सामवेद - मन्त्र संख्या : 1255
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
(महिषः) महान्, (सोमः) जगत्स्रष्टा परमेश्वरः (तत्) वर्ण्यमानम् (महत्) महत्त्वपूर्णं कर्म (चकार) करोति (यत्) अपाम् उदकादीनां पदार्थानाम् (गर्भः) गर्भरूपेण विद्यमानः सः (देवान्) सूर्यचन्द्रवायुविद्युदादीन् प्राणमनश्चक्षुःश्रोत्रादीन् वा (अवृणीत) रक्ष्यत्वेन वृणीते। (पवमानः) कर्मशूरः सः। [पवते गतिकर्मा। निघं० २।१४।] (इन्द्रे) प्राणे, पवने, मनसि वा। [प्राण इवेन्द्रः। श० १२।९।१।१४। यो वै वायुः स इन्द्रो य इन्द्रः स वायुः। श० ४।१।३।१९। मन एवेन्द्रः। श० १२।९।१।१३।] (ओजः) बलम् (अदधात्) अस्थापयत्। (इन्दुः) ज्योतिष्मान् सः (सूर्ये) आदित्ये (ज्योतिः) दीप्तिम् (अजनयत्) उदपादयत् ॥३॥

भावार्थः - परमात्मनो महान्ति कर्माण्याश्चर्यकराणि खलु। प्राणे प्राणनशक्तिं, पवने गतिं, मनसि संकल्पं, सूर्ये दीप्तिं, चन्द्रे ज्योत्स्नां, सरित्सु प्रवाहं, पर्वतेषु दृढतां स एव स्थापयति ॥३॥

इस भाष्य को एडिट करें
Top