Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 126
ऋषिः - सुकक्षश्रुतकक्षौ
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
4
य꣢द꣣द्य꣡ कच्च꣢꣯ वृत्रहन्नु꣣द꣡गा꣢ अ꣣भि꣡ सू꣢र्य । स꣢र्वं꣣ त꣡दि꣢न्द्र ते꣣ व꣡शे꣢ ॥१२६॥
स्वर सहित पद पाठय꣢त् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । कत् । च꣣ । वृत्रहन् । वृत्र । हन् । उद꣡गाः꣢ । उ꣣त् । अ꣡गाः꣢꣯ । अ꣣भि꣢ । सू꣣र्य । स꣡र्व꣢꣯म् । तत् । इ꣣न्द्र । ते । व꣡शे꣢꣯ ॥१२६॥
स्वर रहित मन्त्र
यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य । सर्वं तदिन्द्र ते वशे ॥१२६॥
स्वर रहित पद पाठ
यत् । अद्य । अ । द्य । कत् । च । वृत्रहन् । वृत्र । हन् । उदगाः । उत् । अगाः । अभि । सूर्य । सर्वम् । तत् । इन्द्र । ते । वशे ॥१२६॥
सामवेद - मन्त्र संख्या : 126
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
विषयः - कः परमात्मनो वशे जायत इत्याह।
पदार्थः -
हे (वृत्रहन्२) अविद्यापापदुराचारादीनां धर्मावरकाणां तमसां हन्तः (सूर्य) ज्योतिर्मय ज्योतिष्प्रद (इन्द्र) परमैश्वर्यवन् परमात्मन् ! (अद्य) अस्मिन् दिने, त्वम् (यत् कत् च) यं कमपि मनुष्यम्, यत् किमपि मम मनोबुद्धिप्राणेन्द्रियादिकं वा (अभि) अभिलक्ष्य (उदगाः) उदेषि, (सर्वं तत्) सर्वोऽपि स जनः, सर्वमपि तन्मनोबुद्ध्यादिकं वा (ते) तव (वशे) आधीन्ये जायते इति शेषः३ ॥२॥
भावार्थः - यथा भौतिकः सूर्यो यत्किञ्चिदपि पदार्थजातं प्रत्युदेति तत्सर्वं तत्प्रकाशेन परिप्लुतं भवति, तथैव परमात्मसूर्यो यस्यान्तःकरणे समुदेति स तद्दिव्यप्रकाशेनाप्लुतः सन् तद्वशे सञ्जायते ॥२॥४
टिप्पणीः -
१. ऋ० ८।९३।४, अथ० २०।११२।१, उभयत्र ऋषिः सुकक्षः। य० ३३।३५ देवता सूर्यः। २. वृत्रहन् पापानां हन्तः सूर्य—इति भ०। अपामावरकस्य मेघस्य हन्तः—इति सा०। ३. एतन्मन्त्रव्याख्याने भरतस्वामिना सायणेन च शौनकनाम्ना श्लोकोऽयमुद्धृतः—यदद्य कच्चेत्युदिते रवौ स्तुत्वा पुरंदरम्। गृह्णन्नपोहते शत्रुं वश्यं वा कुरुते जगत् ॥ इति ४. यजुर्भाष्ये दयानन्दर्षिरस्य मन्त्रस्य भावार्थमेवं प्राह—ये पुरुषाः सूर्यवदविद्यान्धकारं दुष्टतां च निवार्य सर्वं वशीभूतं कुर्वन्ति तेऽभ्युदयं प्राप्नुवन्ति इति।