Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1263
ऋषिः - शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
ए꣣ष꣢꣫ दिवं꣣ व्या꣡स꣢रत्ति꣣रो꣢꣫ रजा꣣ꣳस्य꣡स्तृ꣢तः । प꣡व꣢मानः स्वध्व꣣रः꣢ ॥१२६३॥
स्वर सहित पद पाठए꣣षः꣢ । दि꣡व꣢꣯म् । व्या꣡स꣢꣯रत् । वि꣣ । आ꣡स꣢꣯रत् । ति꣣रः꣢ । र꣡जा꣢꣯ꣳसि । अ꣡स्तृ꣢꣯तः । अ । स्तृ꣣तः । प꣡व꣢꣯मानः । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ ॥१२६३॥
स्वर रहित मन्त्र
एष दिवं व्यासरत्तिरो रजाꣳस्यस्तृतः । पवमानः स्वध्वरः ॥१२६३॥
स्वर रहित पद पाठ
एषः । दिवम् । व्यासरत् । वि । आसरत् । तिरः । रजाꣳसि । अस्तृतः । अ । स्तृतः । पवमानः । स्वध्वरः । सु । अध्वरः ॥१२६३॥
सामवेद - मन्त्र संख्या : 1263
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 2; मन्त्र » 8
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 2; मन्त्र » 8
Acknowledgment
विषयः - अथ पुनरपि जीवात्मविषय उच्यते।
पदार्थः -
(एषः) अयम् (स्वध्वरः) सूपासनायज्ञः, (अस्तृतः) विघ्नैरहिंसितः (पवमानः) पुरुषार्थी जीवात्मा (रजांसि) रजस्तमोगुणान्। [अत्र एकशेषः।] (तिरः) तिरस्कृत्य (दिवम्) द्युतिमन्तं परमात्मानम् (व्यासरत्) वेगेन प्राप्नोति ॥८॥
भावार्थः - मनुष्यं विघ्नास्तदैव मार्गात् प्रच्यावयन्ति यदा स रजस्तमोभ्यामभिभूतो भवति ॥८॥
टिप्पणीः -
१. ऋ० ९।३।८ ‘रजां॒स्यस्पृ॑तः’ इति पाठः।