Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1265
ऋषिः - शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ए꣣ष꣢ उ꣣ स्य꣡ पु꣢रुव्र꣣तो꣡ ज꣢ज्ञा꣣नो꣢ ज꣣न꣢य꣣न्नि꣡षः꣢ । धा꣡र꣢या पवते सु꣣तः꣢ ॥१२६५॥

स्वर सहित पद पाठ

ए꣣षः꣢ । उ꣣ । स्यः꣢ । पु꣣रुव्रतः꣢ । पु꣣रु । व्रतः꣢ । ज꣣ज्ञानः꣢ । ज꣣न꣡य꣢न् । इ꣡षः꣢꣯ । धा꣡र꣢꣯या । प꣣वते । सुतः꣢ ॥१२६५॥


स्वर रहित मन्त्र

एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः । धारया पवते सुतः ॥१२६५॥


स्वर रहित पद पाठ

एषः । उ । स्यः । पुरुव्रतः । पुरु । व्रतः । जज्ञानः । जनयन् । इषः । धारया । पवते । सुतः ॥१२६५॥

सामवेद - मन्त्र संख्या : 1265
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 10
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 2; मन्त्र » 10
Acknowledgment

पदार्थः -
(एषः उ) अयं खलु (स्यः) सः (पुरुव्रतः) ब्रह्मचर्याश्रमे बहुव्रतपालकः (जज्ञानः) आचार्याद् नवं जन्म गृह्णानः छात्रः (सुतः) उत्पन्नः सन् (इषः) प्राप्ता विद्याः (जनयन्) अन्येषाम् अध्यापयन् (धारया) वाचा। [धारा इति वाङ्नाम। निघं० १।११।] (पवते) तान् पुनातु ॥१०॥

भावार्थः - आचार्यमुखात् सर्वा विद्या अधीत्य छात्रः पवित्राचरणो द्विजो भूत्वा स्नातकः सन्नन्यानपि सकला विद्या अध्यापयन् पवित्राचरणान् विदध्यात् ॥१०॥ अस्मिन् खण्डे परमात्मनो जीवात्मन आचार्यात् प्राप्तव्यस्य द्वितीयजन्मनश्च विषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥

इस भाष्य को एडिट करें
Top