Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1289
ऋषिः - नृमेध आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
ए꣣ष꣢ ग꣣व्यु꣡र꣢चिक्रद꣣त्प꣡व꣢मानो हिरण्य꣣युः꣢ । इ꣡न्दुः꣢ सत्रा꣣जि꣡दस्तृ꣢꣯तः ॥१२८९॥
स्वर सहित पद पाठए꣣षः꣢ । ग꣣व्युः꣢ । अ꣣चिक्रदत् । प꣡व꣢꣯मानः । हि꣣रण्य꣢युः । इ꣡न्दुः꣢꣯ । स꣣त्राजि꣢त् । स꣣त्रा । जि꣢त् । अ꣡स्तृ꣢꣯तः । अ । स्तृ꣣तः ॥१२८९॥
स्वर रहित मन्त्र
एष गव्युरचिक्रदत्पवमानो हिरण्ययुः । इन्दुः सत्राजिदस्तृतः ॥१२८९॥
स्वर रहित पद पाठ
एषः । गव्युः । अचिक्रदत् । पवमानः । हिरण्ययुः । इन्दुः । सत्राजित् । सत्रा । जित् । अस्तृतः । अ । स्तृतः ॥१२८९॥
सामवेद - मन्त्र संख्या : 1289
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 5; सूक्त » 1; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 5; सूक्त » 1; मन्त्र » 4
Acknowledgment
विषयः - अथ पुनरपि परमात्मविषयमाह।
पदार्थः -
(एषः) अयम् (गव्युः) उपासकान् उपदेशवाचः प्रापयितुकामः। [गौः इति वाङ्नाम। निघं० १।११।] (हिरण्ययुः) यशो ज्योतिश्च प्रापयितुकामः। [यशो वै हिरण्यम्। ऐ० ब्रा० ७।१८। ज्योतिर्हि हिरण्यम् श० ४।३।४।२१।] (सत्राजित्) युगपत् सर्वेषां कामक्रोधादीनां शत्रूणां विजेता, (अस्तृतः) केनापि अहिंसितः (पवमानः) पावकः (इन्दुः) आनन्दरसेन क्लेदकः तेजस्वी परमेश्वरः (अचिक्रदत्) अस्मान् स्वसमीपम् आह्वयति। [क्रदि आह्वाने रोदने च, णिजन्ते लुङ्] ॥४॥
भावार्थः - परमेश्वरः सदैवोपासकैः सह सख्यं स्थापयितुमुद्यतस्तिष्ठति ॥४॥
इस भाष्य को एडिट करें