Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1292
ऋषिः - राहूगण आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
स꣢ सु꣣तः꣢ पी꣣त꣢ये꣣ वृ꣢षा꣣ सो꣡मः꣢ प꣣वि꣡त्रे꣢ अर्षति । वि꣣घ्न꣡न्रक्षा꣢꣯ꣳसि देव꣣युः꣢ ॥१२९२॥
स्वर सहित पद पाठसः꣢ । सु꣣तः꣢ । पी꣣त꣡ये꣢ । वृ꣡षा꣢꣯ । सो꣡मः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣र्षति । विघ्न꣢न् । वि꣣ । घ्न꣢न् । र꣡क्षा꣢꣯ꣳसि । दे꣣वयुः꣢ ॥१२९२॥
स्वर रहित मन्त्र
स सुतः पीतये वृषा सोमः पवित्रे अर्षति । विघ्नन्रक्षाꣳसि देवयुः ॥१२९२॥
स्वर रहित पद पाठ
सः । सुतः । पीतये । वृषा । सोमः । पवित्रे । अर्षति । विघ्नन् । वि । घ्नन् । रक्षाꣳसि । देवयुः ॥१२९२॥
सामवेद - मन्त्र संख्या : 1292
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ परमात्मोपासनायाः फलमाह।
पदार्थः -
(पीतये) पानाय, रसास्वादनाय (सुतः) उपासितः (सः) असौ (वृषा) आनन्दवर्षकः (सोमः) रसमयः परमेश्वरः (पवित्रे) शुद्धेऽन्तरात्मनि (अर्षति) गच्छति। (देवयुः) दिव्यगुणान् प्रदातुं कामयमानः सः। [छन्दसि परेच्छायां क्यच उपसंख्यानम्। अ० ३।१।८। वा० इत्यनेन परेच्छायां क्यच्, क्याच्छन्दसि। अ० ३।२।१७० इति उ प्रत्ययः।] (रक्षांसि) पापानि (विघ्नन्) विनाशयन् भवति ॥१॥
भावार्थः - परमात्मोपासनेनान्तरात्मनि दिव्यगुणाः समायान्ति, दोषाश्च विनश्यन्ति ॥१॥
इस भाष्य को एडिट करें