Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1311
ऋषिः - शतं वैखानसाः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
प꣣व꣢मानो र꣣थी꣡त꣢मः शु꣣भ्रे꣡भिः꣢ शु꣣भ्र꣡श꣢स्तमः । ह꣡रि꣢श्चन्द्रो म꣣रु꣡द्ग꣢णः ॥१३११॥
स्वर सहित पद पाठप꣡व꣢꣯मानः । र꣣थी꣡त꣢मः । शु꣣भ्रे꣡भिः꣢ । शु꣣भ्र꣡श꣢स्तमः । शु꣣भ्र꣢ । श꣣स्तमः । ह꣡रि꣢꣯श्चन्द्रः । ह꣡रि꣢꣯ । च꣣न्द्रः । मरु꣡द्ग꣢णः । म꣣रु꣢त् । ग꣣णः ॥१३११॥
स्वर रहित मन्त्र
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । हरिश्चन्द्रो मरुद्गणः ॥१३११॥
स्वर रहित पद पाठ
पवमानः । रथीतमः । शुभ्रेभिः । शुभ्रशस्तमः । शुभ्र । शस्तमः । हरिश्चन्द्रः । हरि । चन्द्रः । मरुद्गणः । मरुत् । गणः ॥१३११॥
सामवेद - मन्त्र संख्या : 1311
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 9; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 9; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मनो गुणान् वर्णयति।
पदार्थः -
(पवमानः) पावकः सोमः जगत्स्रष्टा परमेश्वरः (रथीतमः) रथवत्सु श्रेष्ठः। [रथितमः इति प्राप्ते ‘ईद् रथिनः’। अ० ८।२।१७ वा० इत्यनेन इकारस्य ईकारादेशः।] (शुभ्रेभिः) शुभ्रैः गुणैः (शुभ्रशस्तमः) निर्मलतमयशोयुक्तः, (हरिश्चन्द्रः) हृदयहार्याह्लादः। [हरिः मनोहरः चन्द्रः आह्लादो यस्य सः। चदि आह्लादे। ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे’ अ० ६।१।१५१ इति सुडागमः।] (मरुद्गणः) मरुतः प्राणा वायवो वा गणा यस्य तथाविधश्च वर्तते ॥२॥
भावार्थः - सूर्यचन्द्रपवनविद्युदादयो मानवदेहाश्च यस्य रथाः सन्ति स यशस्वितमः परमानन्दः प्राणादीनां नायकः परमेश्वरः सर्वैर्ज्ञातव्यः ॥२॥
इस भाष्य को एडिट करें