Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 133
ऋषिः - त्रिशोकः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
6

आ꣢ घा꣣ ये꣢ अ꣣ग्नि꣢मि꣣न्ध꣡ते꣢ स्तृ꣣ण꣡न्ति꣢ ब꣣र्हि꣡रा꣢नु꣣ष꣢क् । ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१३३॥

स्वर सहित पद पाठ

आ꣢ । घा꣣ । ये꣢ । अ꣣ग्नि꣢म् । इ꣣न्ध꣡ते꣢ । स्तृ꣣ण꣡न्ति꣢ । ब꣣र्हिः꣢ । अ꣣नुष꣢क् । अ꣣नु । स꣢क् । ये꣡षा꣢꣯म् । इ꣡न्द्रः꣢꣯ । यु꣡वा꣢꣯ । स꣡खा꣢꣯ । स । खा꣣ । ॥१३३॥


स्वर रहित मन्त्र

आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ॥१३३॥


स्वर रहित पद पाठ

आ । घा । ये । अग्निम् । इन्धते । स्तृणन्ति । बर्हिः । अनुषक् । अनु । सक् । येषाम् । इन्द्रः । युवा । सखा । स । खा । ॥१३३॥

सामवेद - मन्त्र संख्या : 133
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment

पदार्थः -
(ये) जनाः (घ) निश्चयेन। संहितायाम् ऋचि तु नु घ० अ० ६।३।१३३ इति दीर्घः। (अग्निम्) यज्ञाग्निम्, उत्साहाग्निं, संकल्पाग्निं, महत्त्वाकांक्षाया अग्निम्, आत्माग्निं वा (आ इन्धते) आभिमुख्येन प्रदीपयन्ति, (येषां) येषां च जनानाम् (युवा) नित्यतरुणः, सदा सशक्तः (इन्द्रः) पराक्रमशाली परमेश्वरः (सखा) सहायकः जायते, ते जनाः (आनुषक्) आनुपूर्व्येण। आनुषग् इति नाम अनुपूर्वस्य, अनुषक्तं भवति। निरु० ६।१४। (बर्हिः) दर्भासनं तदुपलक्षितं यज्ञं, यज्ञसाधनानि वा (स्तृणन्ति) प्रसारयन्ति, स्तॄञ् आच्छादने, क्र्यादिः। निरन्तरं यज्ञकर्मसु संलग्ना भवन्तीत्याशयः ॥९॥२

भावार्थः - येषां हृदयेऽग्निर्न जाज्वलीति, ते निष्क्रिया अलसाः सन्तो जीवनं यापयन्ति। ते तु स्वार्थसाधनेऽपि मन्दाः, किमुत परार्थसाधनरूपयज्ञकर्मकरणे। परं ये नित्यमग्निहोत्राग्निं, ततश्च प्रेरणां प्राप्योत्साहाग्निं, संकल्पाग्निं, महत्त्वाकांक्षाया अग्निम् आत्माग्निं च प्रदीपयन्ति, ये च नित्यतरुणं, परेषां दुःखदारिद्र्यविदारकं, शत्रुविजेतारं, सृष्टियज्ञकर्त्तारं, शतक्रतुमिन्द्रं परमेश्वरं सखायं कुर्वन्ति, ते सदैव मनसि स्फूर्तिं कर्मण्यतामुदारतां च धारयन्तः सततं परोपकारकर्मसु संयुज्यन्ते ॥९॥

इस भाष्य को एडिट करें
Top