Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1335
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

उ꣢पो꣣ षु꣢ जा꣣त꣢म꣣प्तु꣢रं꣣ गो꣡भि꣢र्भ꣣ङ्गं꣡ परि꣢꣯ष्कृतम् । इ꣡न्दुं꣢ दे꣣वा꣡ अ꣢यासिषुः ॥१३३५॥

स्वर सहित पद पाठ

उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । अ꣣प्तु꣡र꣢म् । गो꣡भिः꣢꣯ । भ꣣ङ्ग꣢म् । प꣡रि꣢꣯ष्कृतम् । प꣡रि꣢꣯ । कृ꣣तम् । इ꣡न्दु꣢꣯म् । दे꣣वाः꣢ । अ꣣यासिषुः ॥१३३५॥


स्वर रहित मन्त्र

उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥१३३५॥


स्वर रहित पद पाठ

उप । उ । सु । जातम् । अप्तुरम् । गोभिः । भङ्गम् । परिष्कृतम् । परि । कृतम् । इन्दुम् । देवाः । अयासिषुः ॥१३३५॥

सामवेद - मन्त्र संख्या : 1335
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थः -
प्रथमः—परमात्मपरः। (सु जातम्) सुप्रसिद्धम्, (अप्तुरम्) अपः व्यापकान् चन्द्रसूर्यग्रहनक्षत्रादिलोकान् त्वरयति वेगेन चालयतीति तम्, (गोभिः) वेदवाग्भिः (भङ्गम्) कामक्रोधादिरिपूणां भञ्जकम्, (परिष्कृतम्) गुणैरलङ्कृतम्। [संपर्युपेभ्यः करोतौ भूषणे। अ० ६।१।१३७ इत्यनेन परिपूर्वात् करोतेः भूषणेऽर्थे सुडागमः।] (इन्दुम्) तेजसा दीप्तम्, आनन्दरसैः क्लेदकं परमात्मानम्। [इन्दुः इन्धेरुनत्तेर्वा। निरु० १०।४०।] (देवाः) विद्वांसो जना आत्ममनोबुद्धिप्राणादयो वा, बलप्राप्त्यर्थम् (उप उ अयासिषुः) उपगच्छन्ति ॥ द्वितीयः—चन्द्रपरः। (सुजातम्) पृथिव्याः सुपुत्रम्, (अप्तुरम्) अप्सु अन्तरिक्षे त्वरते पृथिवीं सूर्यं च परितो धावतीति अप्तुरः तम्। [आपः इत्यन्तरिक्षनामसु पठितम्। निघं० १।३।] (गोभिः भङ्गम्) क्वचिद् भग्नभूमिकम्, क्वचिच्च (परिष्कृतम्) समतलम् (इन्दुम्) चन्द्रमसम् (देवाः) सूर्यकिरणाः (अयासिषुः) प्रकाशनार्थं गच्छन्ति ॥१॥ अत्र श्लेषालङ्कारः ॥१॥

भावार्थः - यथा सर्वे जडपदार्थाश्चेतनाः प्राणिनश्च जगदीश्वरमाश्रयन्ते तथाऽस्माकं सौरलोकस्य मङ्गलबुधपृथिवीचन्द्रादयो ग्रहोपग्रहाः सूर्यमाश्रयन्ते सूर्यश्चापि जगदीश्वराधीनः ॥१॥

इस भाष्य को एडिट करें
Top