Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1343
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
6

क꣣दा꣡ मर्त꣢꣯मरा꣣ध꣡सं꣢ प꣣दा꣡ क्षुम्प꣢꣯मिव स्फुरत् । क꣣दा꣡ नः꣢꣯ शुश्रव꣣द्गि꣢र꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥१३४३॥

स्वर सहित पद पाठ

क꣣दा꣢ । म꣡र्त꣢꣯म् । अ꣣राध꣡स꣢म् । अ꣣ । राध꣡स꣢म् । प꣣दा꣢ । क्षु꣡म्प꣢꣯म् । इ꣡व । स्फुरत् । कदा꣢ । नः꣣ । शुश्रवत् । गि꣡रः꣢꣯ । इ꣡न्द्रः꣢꣯ । अ꣣ङ्ग꣢ ॥१३४३॥


स्वर रहित मन्त्र

कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् । कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥१३४३॥


स्वर रहित पद पाठ

कदा । मर्तम् । अराधसम् । अ । राधसम् । पदा । क्षुम्पम् । इव । स्फुरत् । कदा । नः । शुश्रवत् । गिरः । इन्द्रः । अङ्ग ॥१३४३॥

सामवेद - मन्त्र संख्या : 1343
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
(अङ्ग) हे भद्र ! (इन्द्रः) वीरः परमेश्वरो वीरो नृपतिर्वा भवान् (कदा) कस्मिन् काले (अराधसम्) समाजसेवामकुर्वाणम् (मर्तम्) मनुष्यम् (पदा) पादेन (क्षुम्पम्२ इव) अहिच्छत्रकम् इव (स्फुरत्) विचालयिष्यति। [स्फुरति हन्तिकर्मा। निघं० २।१९।, लेटि रूपम्।] (कदा) कस्मिन् काले, (नः) अस्मान् (गिरः) स्वकीयाः सन्देशवाचः (शुश्रवत्) श्रावयिष्यति। [शृणोतेर्णिचि लुङि रूपम्। अडागमाभावश्छान्दसः] ॥३॥३ यास्कमुनिरिमं मन्त्रमेवं व्याचष्टे—[क्षुम्पमहिच्छत्रकं भवति यत् क्षुभ्यते। कदा मर्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति। कदा नः श्रोष्यति गिर इन्द्रो अङ्ग। अङ्गेति क्षिप्रनाम। निरु० ५।१७।] ॥ अत्रोपमालङ्कारः ॥३॥

भावार्थः - परमात्मवन्नृपतिरपि दुष्टान् दण्डयेत् सज्जनानां च वाचः शुणृयात् स्वकीयाश्च रमणीया उपदेशप्रदा वाचस्तान् श्रावयेत् ॥३॥

इस भाष्य को एडिट करें
Top