Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1348
ऋषिः - मेधातिथिः काण्वः
देवता - तनूनपात्
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
म꣡धु꣢मन्तं तनूनपाद्य꣣ज्ञं꣢ दे꣣वे꣡षु꣢ नः कवे । अ꣣द्या꣡ कृ꣢णुह्यू꣣त꣡ये꣢ ॥१३४८॥
स्वर सहित पद पाठम꣡धु꣢꣯मन्तम् । त꣣नूनपात् । तनू । नपात् । यज्ञ꣢म् । दे꣣वे꣡षु꣢ । नः꣣ । कवे । अ꣡द्य꣢ । अ꣣ । द्य꣢ । कृ꣣णुहि । ऊत꣡ये꣢ ॥१३४८॥
स्वर रहित मन्त्र
मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । अद्या कृणुह्यूतये ॥१३४८॥
स्वर रहित पद पाठ
मधुमन्तम् । तनूनपात् । तनू । नपात् । यज्ञम् । देवेषु । नः । कवे । अद्य । अ । द्य । कृणुहि । ऊतये ॥१३४८॥
सामवेद - मन्त्र संख्या : 1348
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ तनूनपात् परमेश्वरः प्रार्थ्यते।
पदार्थः -
हे (तनूनपात्) देहधारिणामुन्नायक। [तनूः देहान् देहधारिणो न पातयतीति तनूनपात्।] (कवे) क्रान्तप्रज्ञ परमात्मन् ! त्वम् (अद्य) अस्मिन् दिने (ऊतये) रक्षायै (नः) अस्माकम् (देवेषु) विद्वत्सु (यज्ञम्) त्यागभावनाम् (कृणुहि) उत्पादय ॥२॥२
भावार्थः - राष्ट्रवासिनां जीवनं यदि यज्ञमयं त्यागपूर्णं वा भवेत् तर्हि राष्ट्रमुन्नतेश्चरमसोपानमारोहेत् ॥२॥
इस भाष्य को एडिट करें