Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1350
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
अ꣡ग्ने꣢ सु꣣ख꣡त꣢मे꣣ र꣡थे꣢ दे꣣वा꣡ꣳ ई꣢डि꣣त꣡ आ व꣢꣯ह । अ꣢सि꣣ हो꣢ता꣣ म꣡नु꣢र्हितः ॥१३५०॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । सु꣣ख꣡त꣢मे । सु꣣ । ख꣡त꣢꣯मे । र꣡थे꣢꣯ । दे꣣वा꣢न् । ई꣣डितः꣢ । आ । व꣣ह । अ꣡सि꣢꣯ । हो꣡ता꣢꣯ । म꣡नु꣢꣯र्हितः । म꣡नुः꣢꣯ । हि꣡तः ॥१३५०॥
स्वर रहित मन्त्र
अग्ने सुखतमे रथे देवाꣳ ईडित आ वह । असि होता मनुर्हितः ॥१३५०॥
स्वर रहित पद पाठ
अग्ने । सुखतमे । सु । खतमे । रथे । देवान् । ईडितः । आ । वह । असि । होता । मनुर्हितः । मनुः । हितः ॥१३५०॥
सामवेद - मन्त्र संख्या : 1350
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 1; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 1; मन्त्र » 4
Acknowledgment
विषयः - अथ परमेश्वरं प्रार्थयते।
पदार्थः -
हे (अग्ने) अग्रनायक परमात्मन् ! (ईडितः) पूजितः त्वम् (देवान्) दिव्यगुणयुक्तान् (विदुषः) उपासकान् अस्मान्, भाविजन्मनि (सुखतमे) अतिशयेन सुखकारिणि (रथे) मानवदेहरूपे रथे (आ वह) जीवनयात्रां कारय। त्वम् (होता) कर्मफलानां दाता, (मनुर्हितः२) मनुषे मानवाय हितः हितकरः (असि) वर्तसे। [मनुषे हितः मनुर्हितः। अत्र ‘क्ते च’। अ० ६।२।४५ इत्यनेन पूर्वपदप्रकृतिस्वरः] ॥४॥३
भावार्थः - परमेश्वरोपासनेन सत्कर्मसु प्रेरितो मानवो भाविजन्मन्यपि कर्मानुसारं मानवयोनिं प्राप्नोति ॥४॥
इस भाष्य को एडिट करें