Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1396
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣣ग्नि꣢र्वृ꣣त्रा꣡णि꣢ जङ्घनद्द्रविण꣣स्यु꣡र्वि꣢प꣣न्य꣡या꣢ । स꣡मि꣢द्धः शु꣣क्र꣡ आहु꣢꣯तः ॥१३९६॥

स्वर सहित पद पाठ

अ꣣ग्निः꣢ । वृ꣣त्रा꣡णि꣢ । ज꣣ङ्घनत् । द्रविणस्युः꣢ । वि꣣पन्य꣡या꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । शुक्रः꣢ । आ꣡हु꣢꣯तः ॥१३९६॥


स्वर रहित मन्त्र

अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः ॥१३९६॥


स्वर रहित पद पाठ

अग्निः । वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया । समिद्धः । सम् । इद्धः । शुक्रः । आहुतः ॥१३९६॥

सामवेद - मन्त्र संख्या : 1396
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(विपन्यया) शिष्याणां विनयव्यवहारेण (समिद्धः) प्रदीपितः प्रोत्साहितः, (शुक्रः) पवित्रहृदयः, (आहुतः) शिष्यैः कृतात्मसमर्पणः (अग्निः) विद्यया प्रकाशितः आचार्यः(द्रविणस्युः) शिष्याणां विद्याधनप्रदानकामः सन् तेषाम्(वृत्राणि) दोषान् (जङ्घनत्) भृशं हन्यात् ॥१॥२

भावार्थः - गुरूणामेतत् कर्तव्यं यत्ते विद्याप्रदानेन सह शिष्याणां दोषानपि दूरीकुर्युः ॥१॥

इस भाष्य को एडिट करें
Top