Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1398
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
ब्र꣡ह्म꣢ प्र꣣जा꣢व꣣दा꣡ भ꣢र꣣ जा꣡त꣢वेदो꣣ वि꣡च꣢र्षणे । अ꣢ग्ने꣣ य꣢द्दी꣣द꣡य꣢द्दि꣣वि꣢ ॥१३९८॥
स्वर सहित पद पाठब्र꣡ह्म꣢꣯ । प्र꣣जा꣡व꣢त् । प्र꣡ । जा꣡व꣢꣯त् । आ । भ꣣र । जा꣡त꣢꣯वेदः । जा꣡त꣢꣯ । वे꣡दः । वि꣡च꣢꣯र्षणे । वि । च꣣र्षणे । अ꣡ग्ने꣢꣯ । यत् । दी꣣द꣡य꣢त् । दि꣣वि꣢ ॥१३९८॥
स्वर रहित मन्त्र
ब्रह्म प्रजावदा भर जातवेदो विचर्षणे । अग्ने यद्दीदयद्दिवि ॥१३९८॥
स्वर रहित पद पाठ
ब्रह्म । प्रजावत् । प्र । जावत् । आ । भर । जातवेदः । जात । वेदः । विचर्षणे । वि । चर्षणे । अग्ने । यत् । दीदयत् । दिवि ॥१३९८॥
सामवेद - मन्त्र संख्या : 1398
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरप्याचार्यविषयो वर्ण्यते।
पदार्थः -
हे (विचर्षणे) शिष्याणां हिताहितयोर्द्रष्टः, (जातवेदः) उत्पन्नानां पदार्थानां विद्यानां वा वेत्तः (अग्ने) आचार्यवर ! त्वम् (प्रजावत्)उत्पन्नसृष्टिविज्ञानसहितम् (ब्रह्म) ब्रह्मज्ञानम् (आभर) अस्मभ्यम् आहर, प्रदेहि, (यत् दिवि) द्योतनात्मके अस्माकमात्मनि (दीदयत्) दीप्येत ॥३॥२
भावार्थः - गुरवो विद्यार्थिनः सृष्टिविज्ञानेन पदार्थविज्ञानेन भूगोलखगोलादिविज्ञानेन शिल्पविज्ञानेन च सह ब्रह्मविज्ञानमपि शिक्षयेयुः ॥३॥
इस भाष्य को एडिट करें