Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1415
ऋषिः - शुनःशेप आजीगर्तिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

य꣡म꣢ग्ने पृ꣣त्सु꣢꣫ मर्त्य꣣म꣢वा꣣ वा꣡जे꣢षु꣣ यं꣢ जु꣣नाः꣢ । स꣢꣫ यन्ता꣣ श꣡श्व꣢ती꣣रि꣡षः꣢ ॥१४१५॥

स्वर सहित पद पाठ

य꣢म् । अ꣢ग्ने । पृत्सु꣡ । म꣡र्त्य꣢꣯म् । अ꣡वाः꣢꣯ । वा꣡जे꣢꣯षु । यम् । जु꣣नाः꣢ । सः । य꣡न्ता꣢꣯ । श꣡श्व꣢꣯तीः । इ꣡षः꣢꣯ ॥१४१५॥


स्वर रहित मन्त्र

यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः । स यन्ता शश्वतीरिषः ॥१४१५॥


स्वर रहित पद पाठ

यम् । अग्ने । पृत्सु । मर्त्यम् । अवाः । वाजेषु । यम् । जुनाः । सः । यन्ता । शश्वतीः । इषः ॥१४१५॥

सामवेद - मन्त्र संख्या : 1415
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (अग्ने) अग्रनायक तेजस्विन् सर्वान्तर्यामिन् जगदीश्वर ! त्वम् (यं मर्त्यम्) यं मनुष्यम् (पृत्सु) देवासुर-संग्रामेषु (अवाः)रक्षेः, (यम्) यं च (वाजेषु) आत्मिकदैहिकसामाजिकबलप्राप्त्यर्थम्। [निमित्तसप्तम्येषा।] (जुनाः) प्रेरयेः, (सः) असौ (शश्वतीः) बह्वीः। [शश्वदिति बहुनामधेयम्। निघं० ३।१।] (इषः) अध्यात्मसम्पत्तीः (यन्ता) लब्धा स्यात्। [अवाः, जुनाः इति अव रक्षणादौ, जुन गतौ इत्येतयोर्लेटि आडागमे सिपि इकारलोपे रूपम्। यन्ता इत्यत्र यमु उपरमे धातोस्तृन्] ॥१॥२

भावार्थः - मनुष्येण विजयार्थमैहिकपारलौकिकसमृद्ध्यर्थं च स्वपुरुषार्थातिरिक्तं परमात्मनः कृपाप्यपेक्ष्यते ॥१॥

इस भाष्य को एडिट करें
Top