Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1417
ऋषिः - शुनःशेप आजीगर्तिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

स꣡ वाजं꣢꣯ वि꣣श्व꣡च꣢र्षणि꣣र꣡र्व꣢द्भिरस्तु꣣ त꣡रु꣢ता । वि꣡प्रे꣢भिरस्तु꣣ स꣡नि꣢ता ॥१४१७॥

स्वर सहित पद पाठ

सः । वा꣡ज꣢꣯म् । वि꣣श्व꣡च꣢र्षणिः । वि꣢श्व꣢ । च꣣र्षणिः । अ꣡र्व꣢꣯द्भिः । अ꣡स्तु । त꣡रु꣢꣯ता । वि꣡प्रे꣢꣯भिः । वि । प्रे꣢भिः । अस्तु । स꣡नि꣢꣯ता ॥१४१७॥


स्वर रहित मन्त्र

स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता । विप्रेभिरस्तु सनिता ॥१४१७॥


स्वर रहित पद पाठ

सः । वाजम् । विश्वचर्षणिः । विश्व । चर्षणिः । अर्वद्भिः । अस्तु । तरुता । विप्रेभिः । वि । प्रेभिः । अस्तु । सनिता ॥१४१७॥

सामवेद - मन्त्र संख्या : 1417
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
(विश्वचर्षणिः) विश्वे सर्वे चर्षणयः मनुष्याः अनुग्राह्या यस्य तथाविधः। [चर्षणयः इति मनुष्यनाम। निघं० २।३। ‘बहुव्रीहौ विश्वं संज्ञायाम्।’ अ० ६।२।१०६ इति पूर्वपदान्तोदात्तत्वम्] (सः) असौ अग्निः अग्रणीः जगदीश्वरः (अर्वद्भिः) आक्रामकैः क्षत्रियैः योद्धृभिः। [ऋ गतौ। ऋच्छति आक्रामतीति अर्वा। ‘स्नामदिपद्यर्तिपॄशकिभ्यो वनिप्।’ उ० ४।११४ इति वनिप् प्रत्ययः।] (वाजम्) संग्रामम् (तरुता) तारयिता, पारं गमयिता। [ग्रसितस्कभित०। अ० ७।२।३४ इथि तरतेस्तृनि उडागमो निपात्यते।] (अस्तु) भवतु। अपि च, (विप्रेभिः) मेधाविभिर्ब्राह्मणैः (सनिता) ज्ञानादिकस्य प्रदाता (अस्तु) भवतु ॥३॥२

भावार्थः - निराकारः परमेश्वरो विप्राणां माध्यमेन ज्ञानदानं, क्षत्रियाणां माध्यमेन रक्षां, वैश्यानां माध्यमेन पोषकद्रव्यप्रदानं कुर्वन् जनानुपकरोति ॥३॥

इस भाष्य को एडिट करें
Top