Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1427
ऋषिः - कुत्स आङ्गिरसः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
5

अ꣣भि꣡ वस्त्रा꣢꣯ सुवस꣣ना꣡न्य꣢र्षा꣣भि꣢ धे꣣नूः꣢ सु꣣दु꣡घाः꣢ पू꣣य꣡मा꣢नः । अ꣣भि꣢ च꣣न्द्रा꣡ भर्त꣢꣯वे नो꣣ हि꣡र꣢ण्या꣣भ्य꣡श्वा꣢न्र꣣थि꣡नो꣢ देव सोम ॥१४२७॥

स्वर सहित पद पाठ

अभि꣢ । व꣡स्त्रा꣢꣯ । सु꣣वसना꣡नि꣢ । सु꣣ । वसना꣡नि꣢ । अ꣣र्ष । अभि꣢ । धे꣣नूः꣢ । सु꣣दु꣡घाः꣢ । सु꣣ । दु꣡घाः꣢꣯ । पू꣣य꣡मा꣢नः । अ꣡भि꣢ । च꣣न्द्रा꣢ । भ꣡र्त꣢꣯वे । नः꣣ । हि꣡र꣢꣯ण्या । अ꣣भि꣢ । अ꣡श्वा꣢꣯न् । र꣣थि꣡नः꣢ । दे꣣व । सोम ॥१४२७॥


स्वर रहित मन्त्र

अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः । अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥१४२७॥


स्वर रहित पद पाठ

अभि । वस्त्रा । सुवसनानि । सु । वसनानि । अर्ष । अभि । धेनूः । सुदुघाः । सु । दुघाः । पूयमानः । अभि । चन्द्रा । भर्तवे । नः । हिरण्या । अभि । अश्वान् । रथिनः । देव । सोम ॥१४२७॥

सामवेद - मन्त्र संख्या : 1427
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (देव) दानादिगुणयुक्त (सोम) जगत्पते परमात्मन् ! त्वम्, अस्मभ्यम् (सुवसनानि) शोभनतया धारणीयानि (वस्त्रा) वस्त्राणि (अभि अर्ष) प्रेरय, (पूयमानः) शोध्यमानः, मनसि विद्यमानेभ्यः कामक्रोधादिभ्यः पृथक्कृत्य पवित्ररूपेण दृश्यमानः त्वम् (सुदुघाः) सुष्ठु दोग्ध्रीः (धेनूः) गाः (अभि अर्ष) प्रेरय। (नः) अस्माकम् (भर्तवे) भरणाय (चन्द्रा) चन्द्राणि रजतानि (हिरण्या) हिरण्यानि च (अभि अर्ष) प्रेरय। अपि च (रथिनः) रथे युज्यमानान् (अश्वान्) तुरङ्गमान् (अभि अर्ष) प्रेरय ॥२॥

भावार्थः - मानवानां समाजे कोऽपि वस्त्रहीनो गोदुग्धहीनो धनहीनो वाहनहीनश्च न तिष्ठेत्, प्रत्युत सर्वेऽपि श्रीमन्तो गुणवन्तश्च भवेयुः ॥२॥

इस भाष्य को एडिट करें
Top