Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1440
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
4

प्र꣡त्य꣢स्मै꣣ पि꣡पी꣢षते꣣ वि꣡श्वा꣢नि वि꣣दु꣡षे꣢ भर । अ꣣रङ्गमा꣢य꣣ ज꣢ग्म꣣ये꣡ऽप꣢श्चादध्वने꣣ न꣡रः꣢ ॥१४४०॥

स्वर सहित पद पाठ

प्र꣡ति꣢꣯ । अ꣣स्मै । पि꣡पी꣢꣯षते । वि꣡श्वा꣢꣯नि । वि꣣दु꣡षे꣢ । भ꣣र । अरङ्गमा꣡य꣢ । अ꣣रम् । ग꣡मा꣢य । ज꣡ग्म꣢꣯ये । अ꣡प꣢꣯श्चादध्वने । अ꣡प꣢꣯श्चा । द꣣ध्वने । न꣡रः꣢꣯ ॥१४४०॥


स्वर रहित मन्त्र

प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥१४४०॥


स्वर रहित पद पाठ

प्रति । अस्मै । पिपीषते । विश्वानि । विदुषे । भर । अरङ्गमाय । अरम् । गमाय । जग्मये । अपश्चादध्वने । अपश्चा । दध्वने । नरः ॥१४४०॥

सामवेद - मन्त्र संख्या : 1440
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे मानव ! (नरः) पुरुषार्थी त्वम् (पिपीषते) तव श्रद्धारसं पातुमिच्छते, (विश्वानि विदुषे) सर्वाणि ज्ञेयानि जानते, (अरङ्गमाय) पर्याप्तप्रदायिने। [अरं पर्याप्तं गमयति प्रापयतीति अरङ्गमः तस्मै।] (जग्मये) क्रियाशीलाय। [अत्र ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।२।१७१ इति गम्लृ गतौ धातोः किन् प्रत्ययः, तस्य च लिड्वद्भावाद् द्वित्वम्।] (अपश्चा-दध्वने) अपश्चाद्गामिने [दध्यति गतिकर्मा, निरु० २।१४, वनिप्।] (अस्मै) एतस्मै इन्द्राय जगदीश्वराय (प्रतिभर)श्रद्धायाः उपहारं प्रयच्छ ॥१॥२

भावार्थः - परमात्मनि श्रद्दधानो मनुष्यः कदापि जीवने पतनं न प्राप्नोति ॥१॥

इस भाष्य को एडिट करें
Top