Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1442
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
5

य꣡दी꣢ सु꣣ते꣢भि꣣रि꣡न्दु꣢भिः꣣ सो꣡मे꣢भिः प्रति꣣भू꣡ष꣢थ । वे꣢दा꣣ वि꣡श्व꣢स्य꣣ मे꣡धि꣢रो धृ꣣ष꣢꣫त्तन्त꣣मि꣡देष꣢꣯ते ॥१४४२॥

स्वर सहित पद पाठ

य꣡दि꣢꣯ । सु꣣ते꣡भिः꣢ । इ꣡न्दु꣢꣯भिः । सो꣡मे꣢꣯भिः । प्र꣣तिभू꣡ष꣢थ । प्र꣣ति । भू꣡ष꣢꣯थ । वे꣡द꣢꣯ । वि꣡श्व꣢꣯स्य । मे꣡धि꣢꣯रः । घृ꣣ष꣢त् । त꣡न्त꣢꣯म् । तम् । त꣣म् । इ꣢त् । आ । इ꣣षते ॥१४४२॥


स्वर रहित मन्त्र

यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ । वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ॥१४४२॥


स्वर रहित पद पाठ

यदि । सुतेभिः । इन्दुभिः । सोमेभिः । प्रतिभूषथ । प्रति । भूषथ । वेद । विश्वस्य । मेधिरः । घृषत् । तन्तम् । तम् । तम् । इत् । आ । इषते ॥१४४२॥

सामवेद - मन्त्र संख्या : 1442
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे उपासकाः। (यदि) चेत् (सुतेभिः) अभिषुतैः, (इन्दुभिः)क्लेदकैः (सोमेभिः) श्रद्धारसैः यूयम्, इन्द्रं परमात्मानम् (प्रति भूषथ) अलङ्कुरुथ, तर्हि (मेधिरः) मेधावी स इन्द्रः (विश्वस्य) विश्वं सर्वं युष्मदीयं मनोरथम् (वेद) जानाति, किञ्च (धृषत्) विघ्नानां धर्षकः सन् (तं तम्) तं तं मनोरथम् (इत्) निश्चयेन (आ-इषते) आपूरयति। [इषतिः गतिकर्मा। निघं० २।१४] ॥३॥२

भावार्थः - परमेश्वरे श्रद्दधानो जनोऽभिलषितपूर्त्यै समर्थो जायते ॥३॥

इस भाष्य को एडिट करें
Top