Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1444
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

ब꣣भ्र꣢वे꣣ नु꣡ स्वत꣢꣯वसेऽरु꣣णा꣡य꣢ दिवि꣣स्पृ꣡शे꣢ । सो꣡मा꣢य गा꣣थ꣡म꣢र्चत ॥१४४४॥

स्वर सहित पद पाठ

ब꣣भ्र꣡वे꣢ । नु । स्व꣡त꣢꣯वसे । स्व । त꣣वसे । अरुणा꣡य꣢ । दि꣣विस्पृ꣡शे꣢ । दि꣣वि । स्पृ꣡शे꣢꣯ । सो꣡मा꣢꣯य । गा꣣थ꣢म् । अ꣣र्चत ॥१४४४॥


स्वर रहित मन्त्र

बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे । सोमाय गाथमर्चत ॥१४४४॥


स्वर रहित पद पाठ

बभ्रवे । नु । स्वतवसे । स्व । तवसे । अरुणाय । दिविस्पृशे । दिवि । स्पृशे । सोमाय । गाथम् । अर्चत ॥१४४४॥

सामवेद - मन्त्र संख्या : 1444
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे मनुष्याः ! यूयम् (बभ्रवे) धारणपोषणकर्त्रे, (स्वतवसे) स्वकीयबलाय, (अरुणाय) तेजसा आरोचमानाय, (दिविस्पृशे) दिवि द्योतमाने जीवात्मनि स्पर्शयति सद्गुणान् यस्तस्मै (सोमाय) रसागाराय जगत्स्रष्ट्रे सर्वान्तर्यामिने परमेश्वराय (गाथम्) गातव्यं स्तोत्रम् (अर्चत) गायत ॥१॥

भावार्थः - यः स्वकीयेनैव बलेन बलवानस्ति न तु परप्रदत्तेन, तं तेजस्विनं परमात्मानमाराध्य जना बलवन्तस्तेजस्विनो भवन्तु ॥१॥

इस भाष्य को एडिट करें
Top