Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1448
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

इ꣡न्द्रा꣢य सोम꣣ पा꣡त꣢वे꣣ म꣡दा꣢य꣣ प꣡रि꣢ षिच्यसे । म꣣नश्चि꣡न्मन꣢꣯स꣣स्प꣡तिः꣢ ॥१४४८॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯य । सो꣡म । पा꣡त꣢꣯वे । म꣡दा꣢꣯य । प꣡रि꣢꣯ । सि꣣च्यसे । मनश्चि꣢त् । म꣣नः । चि꣢त् । म꣡न꣢꣯सः । प꣡तिः꣢꣯ ॥१४४८॥


स्वर रहित मन्त्र

इन्द्राय सोम पातवे मदाय परि षिच्यसे । मनश्चिन्मनसस्पतिः ॥१४४८॥


स्वर रहित पद पाठ

इन्द्राय । सोम । पातवे । मदाय । परि । सिच्यसे । मनश्चित् । मनः । चित् । मनसः । पतिः ॥१४४८॥

सामवेद - मन्त्र संख्या : 1448
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment

पदार्थः -
हे (सोम) रसागार परमेश ! (मनश्चित्) मनसः चेतयिता, (मनसः पतिः) मनसोऽधीश्वरः, त्वम् (इन्द्राय) जीवात्मने (पातवे) पानाय, (मदाय) उत्साहाय च (परिषिच्यसे) जीवात्मनि परिक्षार्यसे ॥५॥

भावार्थः - परमात्मध्यानेन प्राप्त आनन्दरसो मनोबुद्धिप्राणादींश्चेतयन्नुपासकं जागरूकं करोति ॥५॥

इस भाष्य को एडिट करें
Top