Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1450
ऋषिः - सुकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

उ꣢꣯द्घेद꣣भि꣢ श्रु꣣ता꣡म꣢घं वृष꣣भं꣡ नर्या꣢꣯पसम् । अ꣡स्ता꣢रमेषि सूर्य ॥१४५०॥

स्वर सहित पद पाठ

उ꣢त् । घ꣣ । इ꣢त् । अ꣣भि꣢ । श्रु꣣ता꣡म꣢घम् । श्रु꣣त꣢ । म꣣घम् । वृषभ꣢म् । न꣡र्या꣢꣯पसम् । न꣡र्य꣢꣯ । अ꣣पसम् । अ꣡स्ता꣢꣯रम् । ए꣣षि । सूर्य ॥१४५०॥


स्वर रहित मन्त्र

उद्घेदभि श्रुतामघं वृषभं नर्यापसम् । अस्तारमेषि सूर्य ॥१४५०॥


स्वर रहित पद पाठ

उत् । घ । इत् । अभि । श्रुतामघम् । श्रुत । मघम् । वृषभम् । नर्यापसम् । नर्य । अपसम् । अस्तारम् । एषि । सूर्य ॥१४५०॥

सामवेद - मन्त्र संख्या : 1450
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (सूर्य) सूर्य इव प्रतापिन् वीर ! त्वम् (श्रुतामघम्) प्रख्यातधनम्, (वृषभम्) नर्यापसम् नरहितकर्माणम्, (अस्तारम्) दुःखदुर्गुण- दुर्व्यसनादीनां दूरं प्रक्षेप्तारं प्रजाजनम् (घ इत्) एव (अभि) अभिलक्ष्य (उदेषि) नृपतित्वेन राष्ट्रगगने उद्गच्छसि ॥१॥

भावार्थः - यस्य राज्ये सुयोग्याः प्रजाः सन्ति स एव राजा सुयोग्यो मन्यते ॥१॥

इस भाष्य को एडिट करें
Top