Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1453
ऋषिः - विभ्राट् सौर्यः
देवता - सूर्यः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
4
वि꣣भ्रा꣢ड् बृ꣣ह꣡त्पि꣢बतु सो꣣म्यं꣢꣫ मध्वायु꣣र्द꣡ध꣢द्य꣣ज्ञ꣡प꣢ता꣣व꣡वि꣢ह्रुतम् । वा꣡त꣢जूतो꣣ यो꣡ अ꣢भि꣣र꣡क्ष꣢ति꣣ त्म꣡ना꣢ प्र꣣जाः꣡ पि꣢पर्ति बहु꣣धा꣡ वि रा꣢꣯जति ॥१४५३॥
स्वर सहित पद पाठवि꣣भ्रा꣢ट् । वि꣣ । भ्रा꣢ट् । बृ꣣ह꣢त् । पि꣣बतु । सोम्य꣢म् । म꣡धु꣢꣯ । आ꣡युः꣢꣯ । द꣡ध꣢꣯त् । य꣣ज्ञ꣡प꣢तौ । य꣣ज्ञ꣢ । प꣣तौ । अ꣡वि꣢꣯ह्रुतम् । अ꣡वि꣢꣯ । ह्रु꣢तम् । वा꣡त꣢꣯जूतः । वा꣡त꣢꣯ । जू꣣तः । यः꣢ । अ꣡भिर꣢क्षति । अ꣣भि । र꣡क्ष꣢꣯ति । त्म꣡ना꣢꣯ । प्र꣣जाः꣢ । प्र꣣ । जाः꣢ । पि꣣पर्ति । बहुधा꣢ । वि । रा꣣जति ॥१४५३॥
स्वर रहित मन्त्र
विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥१४५३॥
स्वर रहित पद पाठ
विभ्राट् । वि । भ्राट् । बृहत् । पिबतु । सोम्यम् । मधु । आयुः । दधत् । यज्ञपतौ । यज्ञ । पतौ । अविह्रुतम् । अवि । ह्रुतम् । वातजूतः । वात । जूतः । यः । अभिरक्षति । अभि । रक्षति । त्मना । प्रजाः । प्र । जाः । पिपर्ति । बहुधा । वि । राजति ॥१४५३॥
सामवेद - मन्त्र संख्या : 1453
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ६२८ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र सूर्यवर्णनमुखेन परमात्ममहिमानमाचष्टे।
पदार्थः -
(विभ्राट्) विशेषेण भ्राजमानः सूर्यः। [भ्राजृ दीप्तौ। विशेषेण भ्राजते इति विभ्राट्।] (यज्ञपतौ) यजमाने (अविह्रुतम्) अकुटिलम्। [ह्वृ कौटिल्ये भ्वादिः। ‘ह्रु ह्वरेश्छन्दसि।’ अ० ७।२।३१ इत धातोर्हुः आदेशः।] (आयुः) आयुष्यम् (दधत्) प्रयच्छन् (बृहत्) महत् (सोम्यम्) सोमाद्योषधिरसमयम्। [‘मये च।’ अ० ४।४।१३८ इति मयडर्थे यः प्रत्ययः] (मधु) उदकम्। [मधु इति उदकनामसु पठितम्। निघं० १।१२।] (पिबतु) आचामतु। (वातजूतः) वातेन सूत्रात्मकेन प्राणेन जूतः प्रेरितः (यः) सूर्यः (त्मना) आत्मना (अभि रक्षति) विश्वं सौरमण्डलम् परित्रायते, (प्रजाः) जडचेनात्मिकाः (पिपर्ति) पालयति पूरयति च, (बहुधा) अनेकधा (विराजति) विशेषण दीप्यते च, प्रतिमासं नवनवरूपधारणात्, [तथा चोच्यते ‘द्वादशः आदित्याः।’ काठ० सं० २१।५ इति] ॥१॥२
भावार्थः - जगदीश्वरस्यैवायं महिमा यत् तेन वृष्टिकर्ता परमोपकर्त्ता तेजोगोलकः सूर्यलोको विरचित इति ॥१॥
इस भाष्य को एडिट करें