Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 146
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

इ꣣मा꣡ उ꣢ त्वा पुरूवसो꣣ऽभि꣡ प्र नो꣢꣯नुवु꣣र्गि꣡रः꣢ । गा꣡वो꣢ व꣣त्सं꣢꣫ न धे꣣न꣡वः꣢ ॥१४६॥

स्वर सहित पद पाठ

इ꣣माः꣢ । उ꣣ । त्वा । पुरूवसो । पुरु । वसो । अभि꣢ । प्र । नो꣣नुवुः । गि꣡रः꣢꣯ । गा꣡वः꣢꣯ । व꣣त्स꣢म् । न । धे꣣न꣡वः꣢ ॥१४६॥


स्वर रहित मन्त्र

इमा उ त्वा पुरूवसोऽभि प्र नोनुवुर्गिरः । गावो वत्सं न धेनवः ॥१४६॥


स्वर रहित पद पाठ

इमाः । उ । त्वा । पुरूवसो । पुरु । वसो । अभि । प्र । नोनुवुः । गिरः । गावः । वत्सम् । न । धेनवः ॥१४६॥

सामवेद - मन्त्र संख्या : 146
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 4;
Acknowledgment

पदार्थः -
हे (पुरूवसो) पुरूणि बहूनि वसूनि विद्याहिरण्यसद्गुणादीनि धनानि यस्य स पुरूवसुः, तादृश हे परमात्मन् ! संहितायां पूर्वपदस्य छान्दसो दीर्घः। (इमाः उ) एता हि अस्मदुच्चार्यमाणाः (गिरः) भावभरिताः स्तुतिवाचः (त्वा अभि) त्वामभिलक्ष्य (प्र नोनुवुः) प्रकर्षेण भृशं पुनः पुनः शब्दायन्ते। णु स्तुतौ धातोर्यङ्लुकि प्रयोगः। (धेनवः२) स्वकीयं पयः पाययितुं समुत्सुकाः। धापयति स्वकीयं पयो या सा धेनुः। धेट् पाने धातोः धेट इच्च। उ० ३।३४ इति नु प्रत्ययः। धेनुः धयतेर्वा धिनोतेर्वा। निरु० ११।४३। (गावः) क्षीरिण्यः (वत्सं न) यथा वत्सम् अभिलक्ष्य प्र नोनुवन्त हम्भाशब्दं कुर्वन्ति ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थः - हे जगदीश्वर ! यथा धेनवः स्वकीयं प्रियं वत्समवलोक्य प्रस्नुतपयोधराः सत्यः तं पयः पाययितुं हम्भारवं कुर्वन्ति, तथैवास्मदीया रसभरिताः स्तुतिवाचः भक्तिरसमुद्वेल्लयन्त्य इव प्राणेभ्योऽपि प्रियं त्वां तं रसं पाययितुं त्वां प्रति भृशं शब्दायन्ते, त्वां स्तुवन्ति च ॥२॥

इस भाष्य को एडिट करें
Top