Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1470
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
16

के꣣तुं꣢ कृ꣣ण्व꣡न्न꣢के꣣त꣢वे꣣ पे꣡शो꣢ मर्या अपे꣣श꣡से꣢ । स꣢मु꣣ष꣡द्भि꣢रजायथाः ॥१४७०॥

स्वर सहित पद पाठ

के꣣तु꣢म् । कृ꣣ण्व꣢न् । अ꣣केत꣡वे꣢ । अ꣣ । केत꣡वे꣢ । पे꣡शः꣢꣯ । म꣣र्याः । अपेश꣡से꣢ । अ꣣ । पेश꣡से꣣ । सम् । उ꣣ष꣡द्भिः꣢ । अ꣣जायथाः ॥१४७०॥


स्वर रहित मन्त्र

केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथाः ॥१४७०॥


स्वर रहित पद पाठ

केतुम् । कृण्वन् । अकेतवे । अ । केतवे । पेशः । मर्याः । अपेशसे । अ । पेशसे । सम् । उषद्भिः । अजायथाः ॥१४७०॥

सामवेद - मन्त्र संख्या : 1470
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थः -
हे इन्द्र परमात्मन् आदित्य प्राण वा ! त्वम् (अकेतवे) प्रज्ञानरहिताय कर्मरहिताय च (केतुम्२) प्रज्ञानं कर्म च (कृण्वन्) उत्पादयन्, (अपेशसे) रूपरहिताय (पेशः) रूपम् (कृण्वन्) उत्पादयन् (उषद्भिः) प्रभातकान्तिभिः सह (सम् अजायथाः) प्रादुर्भवसि। हे (मर्याः) मनुष्याः ! तथैव यूयमपि कुरुत। [केतुरिति कर्मनाम प्रज्ञानाम च निघं० २।१, ३।९। पेशः इति रूपनाम। निघं० ३।७। उषद्भिः, ‘स्ववःस्वतवसोरुषसश्चेष्यते। वा० ७।४।४८’ इति सकारस्य दकारादेशः] ॥३॥३

भावार्थः - परमेश्वरवत् सूर्यवत् प्राणवच्च मनुष्या अपि ज्ञानरहितेषु ज्ञानं, कर्मरहितेषु कर्म, रूपरहितेषु च रूपं प्रतन्वन्तु चेत् तदैव तेषां जन्म सफलम् ॥३॥ अस्मिन् खण्डे वेदवाचः आचार्यस्य ब्राह्मणक्षत्रिययोः परमात्मसूर्यप्राणानां च विषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥

इस भाष्य को एडिट करें
Top