Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1474
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - वर्धमाना गायत्री स्वरः - षड्जः काण्ड नाम -
5

त्व꣡म꣢ग्ने य꣣ज्ञा꣢ना꣣ꣳ हो꣢ता꣣ वि꣡श्वे꣣षाꣳ हि꣣तः꣢ । दे꣣वे꣢भि꣣र्मा꣡नु꣢षे꣣ ज꣡ने꣢ ॥१४७४॥

स्वर सहित पद पाठ

त्व꣢म् । अ꣣ग्ने । यज्ञा꣡ना꣢म् । हो꣡ता꣢꣯ । वि꣡श्वे꣢꣯षाम् । हि꣡तः꣢ । दे꣣वे꣡भिः꣢ । मा꣡नु꣢꣯षे । ज꣡ने꣢꣯ ॥१४७४॥


स्वर रहित मन्त्र

त्वमग्ने यज्ञानाꣳ होता विश्वेषाꣳ हितः । देवेभिर्मानुषे जने ॥१४७४॥


स्वर रहित पद पाठ

त्वम् । अग्ने । यज्ञानाम् । होता । विश्वेषाम् । हितः । देवेभिः । मानुषे । जने ॥१४७४॥

सामवेद - मन्त्र संख्या : 1474
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (अग्ने) अग्रणीर्ज्ञानवन् सर्वान्तर्यामिन् तेजोमय कल्मषदाहक परमेश्वर ! (त्वम्) सर्वोपकर्त्ता (यज्ञानाम्) देवपूजासंगतिकरणदानरूपाणां व्यवहाराणाम् (होता)असि, (विश्वेषाम्) सर्वेषाम् (हितः) हितकारी च वर्तसे। अपि च, (मानुषे जने) मानवे समाजे, (देवेभिः) सदाचारिभिः विद्वद्भिः उपास्यसे इति शेषः ॥१॥२

भावार्थः - जगदीश्वरोऽस्माकं पिता भूत्वाऽस्मान् सर्वान् व्यवहारान् शिक्षयति, न्यायकारी दयालुश्च स सर्वेषां हितकर्ताऽस्तीति कृत्वा सर्वैर्जनैः पूजनीयः ॥१॥

इस भाष्य को एडिट करें
Top