Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1481
ऋषिः - हर्यतः प्रागाथः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
ते꣡ जा꣢नत꣣ स्व꣢मो꣣क्यं꣢३꣱सं꣢ व꣣त्सा꣢सो꣣ न꣢ मा꣣तृ꣡भिः꣢ । मि꣣थो꣡ न꣢सन्त जा꣣मि꣡भिः꣢ ॥१४८१॥
स्वर सहित पद पाठते । जा꣣नत । स्व꣢म् । ओ꣣क्य꣢म् । सम् । व꣣त्सा꣡सः꣢ । न । मा꣣तृ꣡भिः꣢ । मि꣣थः꣢ । न꣣सन्त । जामि꣡भिः꣢ ॥१४८१॥
स्वर रहित मन्त्र
ते जानत स्वमोक्यं३सं वत्सासो न मातृभिः । मिथो नसन्त जामिभिः ॥१४८१॥
स्वर रहित पद पाठ
ते । जानत । स्वम् । ओक्यम् । सम् । वत्सासः । न । मातृभिः । मिथः । नसन्त । जामिभिः ॥१४८१॥
सामवेद - मन्त्र संख्या : 1481
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
(ते) परमेश्वरोपासकाः (स्वम्) स्वकीयम् (ओक्यम्) ओकसि हृदयगृहे भवं परमात्माग्निम् (जानत) उपास्यत्वेन जानन्ति। [अत्र ज्ञा धातोर्लडर्थे लङ् अडभावश्च।] ततश्च तं परमेश्वरम् उपासितुम् (मिथः) परस्परम् (जामिभिः) जननीभगिन्यादिभिः (सं नसन्त) संगच्छन्ते। कथमिव ? (वत्सासः न) वत्साः यथा (मातृभिः) गोभिः संगच्छन्ते, तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥
भावार्थः - यथा वत्साः प्रेम्णा गोभिः संतिष्ठन्ते तथैव गृहस्याबालवृद्धं सर्वे जनाः परस्परमेकत्रोपविश्य परमात्मोपासनां कुर्युः ॥२॥
इस भाष्य को एडिट करें