Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1508
ऋषिः - त्र्यरुणस्त्रैवृष्णः, त्रसदस्युः पौरुकुत्सः
देवता - पवमानः सोमः
छन्दः - ऊर्ध्वा बृहती
स्वरः - मध्यमः
काण्ड नाम -
4
अ꣡जी꣢जनो अमृत꣣ म꣡र्त्या꣢य꣣ क꣢मृ꣣त꣢स्य꣣ ध꣡र्म꣢न्न꣣मृ꣡त꣢स्य꣣ चा꣡रु꣢णः । स꣡दा꣢सरो꣣ वा꣢ज꣣म꣢च्छा꣣ स꣡नि꣢ष्यदत् ॥१५०८॥
स्वर सहित पद पाठअ꣡जी꣢꣯जनः । अ꣣मृत । अ । मृत । म꣡र्त्या꣢꣯य । कम् । ऋ꣣त꣡स्य꣢ । ध꣡र्म꣢꣯न् । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । चा꣡रु꣢꣯णः । स꣡दा꣢꣯ । अ꣣सरः । वा꣡ज꣢꣯म् । अ꣡च्छ꣢꣯ । स꣡नि꣢꣯ष्यदत् ॥१५०८॥
स्वर रहित मन्त्र
अजीजनो अमृत मर्त्याय कमृतस्य धर्मन्नमृतस्य चारुणः । सदासरो वाजमच्छा सनिष्यदत् ॥१५०८॥
स्वर रहित पद पाठ
अजीजनः । अमृत । अ । मृत । मर्त्याय । कम् । ऋतस्य । धर्मन् । अमृतस्य । अ । मृतस्य । चारुणः । सदा । असरः । वाजम् । अच्छ । सनिष्यदत् ॥१५०८॥
सामवेद - मन्त्र संख्या : 1508
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
हे (अमृत) अमर सोम जगदीश्वर ! त्वम् (मर्त्याय) मानवाय (ऋतस्य धर्मन्) उदकस्य सत्यनियमस्य वा धारके आकाशे। [ऋतमिति उदकनाम सत्यनाम च। निघं० १।१२, ३।१०।] (चारुणः) कल्याणकरस्य (अमृतस्य) अमृतमयस्य पर्जन्यस्य आदित्यस्य वा (कम्) सुखकरं जलं प्रकाशं वा (अजीजनः) जनितवानसि। अपि च (वाजम् अच्छ) बलं प्रापयितुम् (सनिष्यदत्) प्रस्यन्दमानः त्वम् (सदा) सदैव (असरः) धार्मिकान् उपासकान् प्राप्नोषि। [सनिष्यदत्, स्यन्दू प्रस्रवणे धातोः‘दाधर्तिदर्धर्ति०।’ अ० ७।४।६५ इत्यनेन यङ्लुकि अभ्यासस्य निक् धातुसकारस्य च षत्वं निपात्यते] ॥३॥
भावार्थः - जगदीश्वरस्यास्मान् प्रति कियानुपकारो यत् सोऽस्मभ्यं, गगने वृष्टिप्रदातारं पर्जन्यं तेजसां निधिं सूर्यं च स्थापयति स एव च सर्वा विपदो विघ्नांश्च प्रतिरोद्धुमस्मभ्यं मनोबलं प्रयच्छति ॥३॥
इस भाष्य को एडिट करें