Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1530
ऋषिः - केतुराग्नेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
10

अ꣢ग्ने꣣ न꣡क्ष꣢त्रम꣣ज꣢र꣣मा꣡ सूर्य꣢꣯ꣳ रोहयो दि꣣वि꣢ । द꣢ध꣣ज्ज्यो꣢ति꣣र्ज꣡ने꣢भ्यः ॥१५३०॥

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । न꣡क्ष꣢꣯त्रम् । अ꣣ज꣡र꣢म् । अ꣣ । ज꣡र꣢꣯म् । आ । सू꣡र्य꣢꣯म् । रो꣣हयः । दि꣣वि꣢ । द꣡ध꣢꣯त् । ज्यो꣡तिः꣢꣯ । ज꣡ने꣢꣯भ्यः ॥१५३०॥


स्वर रहित मन्त्र

अग्ने नक्षत्रमजरमा सूर्यꣳ रोहयो दिवि । दधज्ज्योतिर्जनेभ्यः ॥१५३०॥


स्वर रहित पद पाठ

अग्ने । नक्षत्रम् । अजरम् । अ । जरम् । आ । सूर्यम् । रोहयः । दिवि । दधत् । ज्योतिः । जनेभ्यः ॥१५३०॥

सामवेद - मन्त्र संख्या : 1530
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 2; मन्त्र » 4
Acknowledgment

पदार्थः -
प्रथमः—परमात्मपरः। हे (अग्ने) ज्योतिर्मय प्रकाशक जगन्नेतः परमात्मन् ! (जनेभ्यः) जातेभ्यः प्राणिभ्यः (ज्योतिः) प्रकाशम् (दधत्) प्रयच्छन् सन् त्वम् (नक्षत्रम्) गतिमयम्, स्वधुरि परिभ्रमन्तम्। [नक्षत्राणि नक्षतेर्गतिकर्मणः। निरु० ३।२०।] (अजरम्) आसृष्टेरद्यावधि अजीर्णम् (सूर्यम्) आदित्यम् (दिवि) आकाशे (आ रोहयः) आरोहितवानसि ॥ द्वितीयः—नृपतिपरः। हे (अग्ने) राष्ट्रनायक राजन् (जनेभ्यः) प्रजाभ्यः (ज्योतिः) विद्याप्रकाशं विद्युत्प्रकाशं च (दधत्) जनयन् त्वम् (नक्षत्रम्) गतिमन्तम्, (अजरम्) जीर्णतारहतिम् (सूर्यम्) विद्याया धर्मस्य च आदित्यम् (दिवि) राष्ट्रगगने (आरोहयः) आरोहितवानसि ॥४॥

भावार्थः - यथा परमेश्वरो गगने वस्तुत एव सूर्यं जनयति तथैव यो राजा राष्ट्रे पराविद्याया अपराविद्याया धर्मस्य च प्रकाशं करोति सोऽपि सूर्यमिव जनयतीत्युच्यते ॥४॥

इस भाष्य को एडिट करें
Top