Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1545
ऋषिः - भर्गः प्रागाथः देवता - अग्निः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
7

पा꣣हि꣡ विश्व꣢꣯स्माद्र꣣क्ष꣢सो꣣ अ꣡रा꣢व्णः꣣ प्र꣢ स्म꣣ वा꣡जे꣢षु नोऽव । त्वा꣡मिद्धि नेदि꣢꣯ष्ठं दे꣣व꣡ता꣢तय आ꣣पिं꣡ नक्षा꣢꣯महे वृ꣣धे꣢ ॥१५४५॥

स्वर सहित पद पाठ

पा꣣हि꣢ । वि꣡श्व꣢꣯स्मात् । र꣣क्ष꣡सः꣢ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । प्र꣢ । स्म꣣ । वा꣡जे꣢꣯षु । नः꣣ । अव । त्वा꣢म् । इत् । हि । ने꣡दि꣢꣯ष्ठम् । दे꣣व꣡ता꣢तये । आ꣣पि꣢म् । न꣡क्षा꣢꣯महे । वृ꣡धे꣢꣯ ॥१५४५॥


स्वर रहित मन्त्र

पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव । त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥१५४५॥


स्वर रहित पद पाठ

पाहि । विश्वस्मात् । रक्षसः । अराव्णः । अ । राव्णः । प्र । स्म । वाजेषु । नः । अव । त्वाम् । इत् । हि । नेदिष्ठम् । देवतातये । आपिम् । नक्षामहे । वृधे ॥१५४५॥

सामवेद - मन्त्र संख्या : 1545
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
हे अग्ने ! हे विद्वन् आचार्य ! त्वम् (विश्वस्मात्) सर्वस्मात् (अराव्णः) अदानशीलात् स्वार्थपरायणात् (रक्षसः) राक्षसात्, अस्मान् (पाहि) रक्ष, (वाजेषु) देवासुरसङ्ग्रामेषु (नः) अस्मान् (प्र अव स्म) प्ररक्ष। (त्वाम् इत् हि) त्वामेव खलु वयम् (देवतातये) दिव्यगुणप्राप्तये (वृधे) उन्नत्यै च (नेदिष्ठम) निकटतमम् (आपिम्) बन्धुम् (नक्षामहे) प्राप्नुमः [नक्षतिर्व्याप्तिकर्मा। निघं० २।१८] ॥२॥

भावार्थः - आचार्यस्येदं कर्तव्यं यत् स शिष्याणामन्तरात्मं जायमानेषु देवासुरसंग्रामेषु दिव्यभावानां विजयाय सहायको भवेत्, स्वार्थवृत्तीश्च विनाश्य परोपकारवृत्तीर्जनयेत् ॥२॥ अस्मिन् खण्डे परमात्मन आचार्यस्य च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन सङ्गतिरस्ति ॥

इस भाष्य को एडिट करें
Top