Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 157
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
9

व꣣य꣡मु꣢ त्वा त꣣दि꣡द꣢र्था꣣ इ꣡न्द्र꣢ त्वा꣣य꣢न्तः꣣ स꣡खा꣢यः । क꣡ण्वा꣢ उ꣣क्थे꣡भि꣢र्जरन्ते ॥१५७॥

स्वर सहित पद पाठ

व꣣य꣢म् । उ꣣ । त्वा । तदि꣡द꣢र्थाः । त꣣दि꣢त् । अ꣣र्थाः । इ꣡न्द्र꣢꣯ । त्वा꣣य꣡न्तः꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । क꣡ण्वाः꣢꣯ । उ꣣क्थे꣡भिः꣢ । ज꣣रन्ते ॥१५७॥


स्वर रहित मन्त्र

वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते ॥१५७॥


स्वर रहित पद पाठ

वयम् । उ । त्वा । तदिदर्थाः । तदित् । अर्थाः । इन्द्र । त्वायन्तः । सखायः । स । खायः । कण्वाः । उक्थेभिः । जरन्ते ॥१५७॥

सामवेद - मन्त्र संख्या : 157
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment

पदार्थः -
हे (इन्द्र) परमात्मन् ! (त्वायन्तः) त्वां कामयमानाः। युष्मच्छब्दात् आत्मन इच्छार्थे क्यचि शतरि रूपम्। (सखायः) तव सुहृदः (वयम् उ) वयम् उपासकाः खलु। उ इति वाक्यालङ्कारे पदपूरणे वा। (तदिदर्थाः२) तत् इत् तदेव त्वद्दर्शनमेव अर्थः प्रयोजनं येषां तथाविधाः सन्तः (त्वा) त्वाम् स्तुमः इति शेषः। न केवलं वयम्, प्रत्युत (कण्वाः) सर्वेऽपि मेधाविनः। कण्व इति मेधाविनाम। निघं० ३।१५। (उक्थेभिः) उक्थैः स्तोत्रैः त्वाम् (जरन्ते) स्तुवन्ति। जरते अर्चतिकर्मा। निघं० ३।१४ ॥३॥

भावार्थः - हे परमानन्दप्रदायक परमेश्वर ! त्वद्दर्शनलालसाः सर्वे वयमौत्सुक्येन त्वां कामयामहे, पुनः पुनश्च सभक्तिगद्गदं त्वां स्तुवामहे ॥३॥

इस भाष्य को एडिट करें
Top