Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1584
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
6

अ꣢श्व꣣ न꣢ गी꣣र्भी꣢ र꣣꣬थ्य꣢꣯ꣳ सु꣣दा꣡न꣢वो मर्मृ꣣ज्य꣡न्ते꣢ देव꣣य꣡वः꣢ । उ꣣भे꣢ तो꣣के꣡ तन꣢꣯ये दस्म विश्पते꣣ प꣢र्षि꣣ रा꣡धो꣢ म꣣घो꣡ना꣢म् ॥१५८४॥

स्वर सहित पद पाठ

अ꣡श्व꣢꣯म् । न । गी꣣र्भिः꣢ । र꣣थ्यम्꣢ । सु꣣दा꣡न꣢वः । सु꣣ । दा꣡न꣢꣯वः । म꣣र्मृज्य꣡न्ते꣢ । दे꣣वय꣡वः꣢ । उ꣣भे꣡इति꣢ । तो꣣के꣡इति꣢ । त꣡न꣢꣯ये । द꣣स्म । विश्पते । प꣡र्षि꣢꣯ । रा꣡धः꣢꣯ । म꣣घो꣡ना꣢म् ॥१५८४॥


स्वर रहित मन्त्र

अश्व न गीर्भी रथ्यꣳ सुदानवो मर्मृज्यन्ते देवयवः । उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥१५८४॥


स्वर रहित पद पाठ

अश्वम् । न । गीर्भिः । रथ्यम् । सुदानवः । सु । दानवः । मर्मृज्यन्ते । देवयवः । उभेइति । तोकेइति । तनये । दस्म । विश्पते । पर्षि । राधः । मघोनाम् ॥१५८४॥

सामवेद - मन्त्र संख्या : 1584
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 5; मन्त्र » 2
Acknowledgment

पदार्थः -
प्रथमः—परमात्मपरः।। (देवयवः) दिव्यगुणान् कामयमानाः (सुदानवः) शोभनं यथा स्यात्तथा आत्मसमर्पणकारिणः उपासकाः। [ददातीति दानुः। ददातेः ‘दाभाभ्यां नुः’। उ० ३।३२ इत्यनेन नुः प्रत्ययः।] (रथ्यम् अश्वं न) रथस्य वोढारं तुरगमिव (रथ्यम्) ब्रह्माण्डरथस्य वोढारम् परमात्मानम् (गीर्भिः) स्तुतिवाग्भिः (मर्मृज्यन्ते) अलङ्कुर्वन्ति प्रार्थयन्ते च यत्—हे (दस्म) दर्शनीय (विश्पते) प्रजापते परमात्मन् ! त्वम् अस्माकम् (तोके तनये) पुत्रे पौत्रे च (उभे) उभयस्मिन् (मघोनाम्) धनिनाम् (राधः) धनमिव, इति लुप्तोपमम्, (राधः) अध्यात्मधनं भौतिकधनं साफल्यं च (पर्षि) सिञ्च ॥ द्वितीयः—आचार्यपरः। (देवयवः) स्वकीयपुत्रान् देवान् विदुषः कामयमानाः (सुदानवः) शुभदानकारिणः गृहस्थाः जनाः (रथ्यम् अश्वं न) रथस्य वोढारं तुरगमिव (रथ्यम्) विद्यारथस्य वोढारम् आचार्यम् (गीर्भिः) प्रशंसावचनैः (मर्मृज्यन्ते) अतिशयेन अलङ्कुर्वन्ति। कथयन्ति च यत्—हे (दस्म) दोषाणां विनाशक ! हे (विश्पते) विशां प्रजानां पते पालक आचार्य ! त्वम् अस्माकम् (तोके तनये) पुत्रे पौत्रे च (उभे) उभयस्मिन् (मघोनाम्) विद्याधनेन धनवतां गुरूणाम् (राधः) विद्यारूपं धनम् (पर्षि) सिञ्च, बहुलतया प्रयच्छेत्यर्थः ॥२॥ अत्रोपमालङ्कारः श्लेषश्च ॥२॥

भावार्थः - परमात्मन आचार्यस्य च कृपयाऽस्माकं सन्तानाः परमेश्वरपूजकाः पुरुषार्थिनो विद्यावन्तो धार्मिकाश्च स्युः ॥२॥ अस्मिन् खण्डे गुरुशिष्ययोः परमात्मजीवात्मनोर्मानवोद्बोधनस्य च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥

इस भाष्य को एडिट करें
Top