Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1602
ऋषिः - हर्यतः प्रागाथः देवता - अग्निर्हवींषि वा छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

गा꣢व꣣ उ꣡प꣢ वदाव꣣टे꣢ म꣣ही꣢ य꣣ज्ञ꣡स्य꣢ र꣣प्सु꣡दा꣢ । उ꣣भा꣡ कर्णा꣢꣯ हिर꣣ण्य꣡या꣢ ॥१६०२॥

स्वर सहित पद पाठ

गा꣡वः꣢꣯ । उ꣡प꣢꣯ । व꣣द । अवटे꣢ । म꣣ही꣡इति꣢ । य꣣ज्ञ꣡स्य꣢ । र꣣प्सु꣡दा꣢ । र꣣प्सु꣢ । दा꣣ । उ꣡भा । क꣡र्णा꣢꣯ । हि꣣रण्य꣡या꣢ ॥१६०२॥


स्वर रहित मन्त्र

गाव उप वदावटे मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥१६०२॥


स्वर रहित पद पाठ

गावः । उप । वद । अवटे । महीइति । यज्ञस्य । रप्सुदा । रप्सु । दा । उभा । कर्णा । हिरण्यया ॥१६०२॥

सामवेद - मन्त्र संख्या : 1602
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 6; मन्त्र » 1
Acknowledgment

पदार्थः -
हे मानव ! उपासनायज्ञे त्वम् (अवटे) आनन्दरसानां कूपे अग्नौ परमेश्वरे, तादृशं परमेश्वरमधिकृत्येत्यर्थः (गावः) गाः वेदवाचः।[छन्दसि सर्वेषां विधीनां विकल्पनादत्र ‘औतोम्शसोः’ इति न प्रवर्तते।] (उपवद) सामीप्येन उच्चारय। (मही) मह्यौ द्यावापृथिव्यौ (यज्ञस्य) पूजनीयस्य परमात्मनः। [इज्यते पूज्यते इति यज्ञः परमेश्वरः।] (रप्सु-दा) रप्सु-दे, कीर्तिगायिके स्तः, ये(उभा) उभे, (कर्णा) कर्णे विविधैश्वर्याणां विक्षेपिके। [कॄ विक्षेपे धातोः ‘कॄवॄजॄसिद्रूपन्यनिस्वपिभ्यो नित्। उ० ३।१०’ इति नक् प्रत्ययः, तस्य च नित्त्वादाद्युदात्तत्वम्।] (हिरण्यया) हिरण्ये ज्योतिर्मये स्तः। [रप्सुदा, उभा, कर्णा, हिरण्यया इति सर्वत्र स्त्रियां प्रथमाद्विवचनस्य ‘सुपां सुलुक्०’ ७।१।३९ इत्याकारः] ॥१॥२

भावार्थः - ऐश्वर्यपूर्णे दीप्ते द्यावापृथिव्यौ जगदीश्वरस्यैव महिमानं गायतः ॥१॥

इस भाष्य को एडिट करें
Top