Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1603
ऋषिः - हर्यतः प्रागाथः
देवता - अग्निर्हवींषि वा
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
अ꣣भ्या꣢र꣣मि꣡दद्र꣢꣯यो꣣ नि꣡षि꣢क्तं꣣ पु꣡ष्क꣢रे꣣ म꣡धु꣢ । अ꣣व꣡ट꣢स्य वि꣣स꣡र्ज꣢ने ॥१६०३॥
स्वर सहित पद पाठअ꣣भ्या꣡र꣢म् । अ꣣भि । आ꣡र꣢꣯म् । इत् । अ꣡द्र꣢꣯यः । अ । द्र꣣यः । नि꣡षि꣢꣯क्तम् । नि । सि꣣क्तम् । पु꣡ष्क꣢꣯रे । म꣡धु꣢꣯ । अ꣣वट꣡स्य꣢ । वि꣣स꣡र्ज꣢ने । वि꣣ । स꣡र्ज꣢꣯ने ॥१६०३॥
स्वर रहित मन्त्र
अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु । अवटस्य विसर्जने ॥१६०३॥
स्वर रहित पद पाठ
अभ्यारम् । अभि । आरम् । इत् । अद्रयः । अ । द्रयः । निषिक्तम् । नि । सिक्तम् । पुष्करे । मधु । अवटस्य । विसर्जने । वि । सर्जने ॥१६०३॥
सामवेद - मन्त्र संख्या : 1603
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 6; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 6; मन्त्र » 2
Acknowledgment
विषयः - अथ वृष्टिमुखेन परमात्मनो महिमानमाचष्टे।
पदार्थः -
अग्नेः परमात्मन एव महिम्ना (अद्रयः) मेघाः। [अद्रिरिति मेघनाम। निघं० १।१०।] (अभ्यारम् इत्) परस्परं संघट्टन्ते खलु। ततः (अवटस्य) मेघरूपस्य कूपस्य। [अवत इति कूपनाम। निघं० ३।२३।] (विसर्जने) वर्षणे सति (पुष्करे) भूमिष्ठे सरोवरे (मधु) मधुरं वृष्ट्युदकम् (निषिक्तम्) संसिक्तं जायते ॥२॥
भावार्थः - यदिदं भूमिष्ठमुदकं सूर्यतापेनान्तरिक्षं गत्वा मेघतां प्रतिपद्यते, पुनश्च पृथिव्यां वर्षति, तत्सर्वं जगदीश्वरस्यैव कर्तृत्वं विद्यते ॥२॥
इस भाष्य को एडिट करें