Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1606
ऋषिः - देवातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

स꣣व्या꣡मनु꣢꣯ स्फि꣣꣬ग्यं꣢꣯ वावसे꣣ वृ꣢षा꣣ न꣢ दा꣣नो꣡ अ꣢स्य रोषति । म꣢ध्वा꣣ सं꣡पृ꣢क्ताः सार꣣घे꣡ण꣢ धे꣣न꣢व꣣स्तू꣢य꣣मे꣢हि꣣ द्र꣢वा꣣ पि꣡ब꣢ ॥१६०६॥

स्वर सहित पद पाठ

स꣣व्या꣡म् । अ꣡नु꣢꣯ । स्फि꣡ग्य꣢꣯म् । वा꣣वसे । वृ꣡षा꣢꣯ । न । दा꣣नः꣢ । अ꣣स्य । रोषति । म꣡ध्वा꣢꣯ । सं꣡पृ꣢꣯क्ताः । सम् । पृ꣣क्ताः । सारघे꣡ण꣢ । धे꣣न꣡वः꣢ । तू꣡य꣢꣯म् । आ । इ꣣हि । द्र꣡व꣢꣯ । पि꣡ब꣢꣯ ॥१६०६॥


स्वर रहित मन्त्र

सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति । मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥१६०६॥


स्वर रहित पद पाठ

सव्याम् । अनु । स्फिग्यम् । वावसे । वृषा । न । दानः । अस्य । रोषति । मध्वा । संपृक्ताः । सम् । पृक्ताः । सारघेण । धेनवः । तूयम् । आ । इहि । द्रव । पिब ॥१६०६॥

सामवेद - मन्त्र संख्या : 1606
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे परमात्मोपासक ! (वृषा) बलवान् त्वम् (सव्याम्) वामाम्(स्फिग्यम्) कटिप्रोथोपलक्षितां पादयष्टिम् (अनु) अन्वाश्रित्य, दक्षिणां च पश्चाद् विधाय (वावसे) तिष्ठ। [वसतेर्लोडर्थे लिटि छान्दसं रूपम्।] कस्याञ्चिद् धावनस्पर्धायां भागग्रहीतॄणामेषा भङ्गिर्भवति। सदैव विक्रमशीलस्तिष्ठेति भावः। (अस्य) एवंविधस्य विक्रमशीलस्य तव (दानः) अखण्डयिता हिंसकः कश्चित्। [दान खण्डने भ्वादिः पचाद्यच्।] (न रोषति) हिंसां कर्तुं न शक्ष्यति [रुष हिंसार्थः, भ्वादिः।] हे उपासक ! (सारघेण मध्वा) मधुमक्षिकाजनितेन मधुना (सम्पृक्ताः) संयुक्ताः (धेनवः) गोदुग्धादयः सज्जिताः सन्ति। [अथाप्यस्यां ताद्धितेन कृत्स्नवन्निगमा भवन्ति ‘गोभिः श्रीणीत मत्सरम्’ (ऋ० ९।४६।४) इति पयसः। निरु० २।५।] (तूयम्) शीघ्रम् (एहि) आगच्छ, (द्रव) धाव, (पिब) आस्वादय ॥२॥

भावार्थः - यथा धावनप्रतिस्पर्धायां प्रतिस्पर्द्धिनो जानुन्याकुञ्चितं वामं पादमग्रे कृत्वा दक्षिणं च पश्चात् कृत्वा भङ्गिविशेषेण धावनसन्नद्धास्तिष्ठन्ति तथा परमेश्वरोपासकः सदैव पुरुषार्थाय सज्जस्तिष्ठति। अतस्तन्मार्गे कोऽपि बाधां जनयितुं न शक्नोति,प्रत्युत तस्य सर्वे स्वागतमभिनन्दनं च कुर्वन्ति ॥२॥

इस भाष्य को एडिट करें
Top