Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 162
ऋषिः - कुसीदी काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
8
य꣡ इ꣢न्द्र चम꣣से꣡ष्वा सोम꣢꣯श्च꣣मू꣡षु꣢ ते सु꣣तः꣢ । पि꣡बेद꣢꣯स्य꣣ त्व꣡मी꣢शिषे ॥१६२॥
स्वर सहित पद पाठयः꣢ । इ꣢न्द्र । चमसे꣡षु꣢ । आ । सो꣡मः꣢꣯ । च꣣मू꣡षु꣢ । ते꣣ । सुतः꣢ । पि꣡ब꣢꣯ । इत् । अ꣣स्य । त्व꣢म् । ई꣣शिषे ॥१६२॥
स्वर रहित मन्त्र
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः । पिबेदस्य त्वमीशिषे ॥१६२॥
स्वर रहित पद पाठ
यः । इन्द्र । चमसेषु । आ । सोमः । चमूषु । ते । सुतः । पिब । इत् । अस्य । त्वम् । ईशिषे ॥१६२॥
सामवेद - मन्त्र संख्या : 162
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment
विषयः - अथेन्द्रनाम्ना परमात्मा जीवात्मा राजा वा प्रोच्यते।
पदार्थः -
प्रथमः—परमात्मजीवात्मपरः। हे (इन्द्रः) दुःखविदारक सुखप्रदातः परमात्मन्, शक्तिशालिन् जीवात्मन् वा ! (यः) योऽयं पुरतः उपस्थितः (सोमः) भक्तिरसो ज्ञानकर्मरसो वा (चमसेषु) ज्ञानेन्द्रियकर्मेन्द्रियरूपेषु चमसपात्रेषु, (चमूषु) प्राणमनोबुद्धिरूपेषु अधिषवणफलकेषु च (आ सुतः) मया आ समन्तात् अभिषुतोऽस्ति, तम् (पिब इत्) अवश्यमास्वादय। (अस्य) भक्तिरसरूपस्य ज्ञानकर्मरूपस्य च सोमस्य (त्वम् ईशिषे) अधीश्वरोऽसि। अत्र अधीगर्थदयेषां कर्मणि अ० २।३।५२ इति कर्मणि षष्ठी ॥ अथ द्वितीयः—राजपरः। हे (इन्द्र) शत्रुदलनसमर्थ पराक्रमशालिन् राजन् ! (यः) योऽयम् (ते) तव (चमसेषु) मेघेषु, मेघवत् ज्ञानवर्षकेषु ब्राह्मणेषु। चमस इति मेघनाम। निघं० १।१०। (चमूषु) क्षत्रियसेनासु च (सोमः) क्रमशो ब्रह्मबलरूपः क्षत्रबलरूपश्च सोमरसः। सोमो वै ब्राह्मणः। तां० ब्रा० २३।१६।५, क्षत्रं सोमः। ऐ० ब्रा० २।३८। (आसुतः) अभिषुतोऽस्ति, तम् (पिब इत्) स्वाभ्यन्तरेऽपि अवश्यं गृहाण, त्वं स्वयमपि ब्रह्मक्षत्रबलयुक्तो भवेत्यर्थः। (अस्य) ब्रह्मक्षत्ररूपस्य सोमस्य (त्वम् ईशिषे) अधीश्वरो भव ॥८॥ अत्र श्लेषालङ्कारः ॥८॥
भावार्थः - परमात्मा स्तोतॄणां भक्तिरूपं, जीवात्मा ज्ञानकर्मरूपं, राजा च ब्रह्मक्षत्ररूपं सोमरसं यदि गृह्णीयात्, तदा स्तोतॄणां जीवानां राष्ट्राणां च महत् कल्याणं जायेत ॥८॥
टिप्पणीः -
१. ऋ० ८।८२।७।