Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1620
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
10

इ꣡न्द्रं꣢ वो वि꣣श्व꣢त꣣स्प꣢रि꣣ ह꣡वा꣢महे꣣ ज꣡ने꣢भ्यः । अ꣣स्मा꣡क꣢मस्तु꣣ के꣡व꣢लः ॥१६२०॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । वः꣣ । विश्व꣡तः꣢ । प꣡रि꣢꣯ । ह꣡वा꣢꣯महे । ज꣡ने꣢꣯भ्यः । अ꣣स्मा꣡क꣢म् । अ꣣स्तु । के꣡व꣢꣯लः ॥१६२०॥


स्वर रहित मन्त्र

इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः ॥१६२०॥


स्वर रहित पद पाठ

इन्द्रम् । वः । विश्वतः । परि । हवामहे । जनेभ्यः । अस्माकम् । अस्तु । केवलः ॥१६२०॥

सामवेद - मन्त्र संख्या : 1620
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे सखायः ! (विश्वतः परि) सर्वेभ्यः उपरि वयम् (इन्द्रम्) विघ्नविदारकं परमैश्वर्यवन्तं परमात्मानम् (जनेभ्यः वः) प्रजाभ्यः युष्मभ्यम् (हवामहे) आह्वयामः। सः (अस्माकम्) स्तोतॄणाम्(केवलः) अद्वितीयः (सखा अस्तु) जायताम् ॥१॥२

भावार्थः - कामं मातापितृनृपत्यादयोऽस्माकं सुखप्रदा भवनति, परं सदा सहायः सदाऽशरणशरणः सदा धैर्यप्रदः सखा तु जगदीश्वर एव ॥१॥

इस भाष्य को एडिट करें
Top