Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 164
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
8
आ꣢꣫ त्वेता꣣ नि꣡ षी꣢द꣣ते꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । स꣡खा꣢यः꣣ स्तो꣡म꣢वाहसः ॥१६४॥
स्वर सहित पद पाठआ꣢ । तु । आ । इ꣣त । नि꣢ । सी꣣दत । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । स꣡खा꣢꣯यः । स । खा꣣यः । स्तो꣡म꣢꣯वाहसः । स्तो꣡म꣢꣯ । वा꣣हसः ॥१६४॥
स्वर रहित मन्त्र
आ त्वेता नि षीदतेन्द्रमभि प्र गायत । सखायः स्तोमवाहसः ॥१६४॥
स्वर रहित पद पाठ
आ । तु । आ । इत । नि । सीदत । इन्द्रम् । अभि । प्र । गायत । सखायः । स । खायः । स्तोमवाहसः । स्तोम । वाहसः ॥१६४॥
सामवेद - मन्त्र संख्या : 164
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment
विषयः - अथ स्तुतिगीतानि गातुं सखायो निमन्त्र्यन्ते।
पदार्थः -
हे (स्तोमवाहसः) स्तोमान् स्तोत्राणि वहन्ति उपास्यं प्रति नयन्ति, यद्वा स्तोमं जनसमूहं नयन्ति नेतृत्वेन उत्कर्षं प्रापयन्ति ते। स्तोमपूर्वाद् वह प्रापणे धातोः कर्मण्यण्। जसि आज्जसेरसुक् अ० ७।१।५० इत्यसुगागमः। (सखायः) सुहृदः ! यूयम् (तु२) क्षिप्रम् (आ३ इत) आगच्छत। संहितायां द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति दीर्घः। (आ निषीदत४) आगत्य च उपासनाकर्मणि राष्ट्रोत्थानकर्मणि वा उपविशत, (इन्द्रम्) परमैश्वर्ययुक्तं दुःखविदारकं सुखप्रदं परमात्मानं राष्ट्रं वा (अभि) अभिलक्ष्य (प्रगायत) प्रकृष्टतये गीतानि गायत ॥१०॥
भावार्थः - प्रजाजनैरुपासनागृहे समवेतैर्भूत्वा दुःखभञ्जकं सुखोत्पादकमिन्द्रं परमेश्वरं प्रति सामगीतानि गेयानि, राष्ट्रोत्थानाय च कृतसंकल्पैर्बद्धपरिकरैश्च भूत्वा राष्ट्रगीतानि गातव्यानि ॥१०॥ अत्रेन्द्रनाम्ना परमात्मगुणवर्णनपूर्वकं तं प्रति स्तुतिगीतानि गातुं भक्तिकर्मरसरूपं सोममर्पयितुं च प्रेरणात्, उपासकैश्च तस्याह्वानादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिर्वेद्या ॥१०॥ इति द्वितीये प्रपाठके द्वितीयार्धे द्वितीया दशतिः। इति द्वितीयाध्याये पञ्चमः खण्डः।
टिप्पणीः -
१. ऋ० १।५।१, अथ० २०।६८।११, साम० ७४०। २, ३. आ तु इति पादपूरणौ—इति वि०। तु क्षिप्रम्—इति भ०। तु शब्दः क्षिप्रार्थो निपातः—इति सा०। उपसर्गाभ्यां च आख्यातावृत्तिं सूचयति। हे प्रस्तोत्रादयः आगच्छत, आगच्छत इति प्रत्येकं स्तोतॄनाह्वयति—इति भ०। आ तु आ इत इति द्वाभ्याम् आङ्भ्यां मन्त्रे तु इत शब्दोऽभ्यसनीयः—इति सा०। ४. सर्वे यूयं मिलित्वा परस्परं प्रीत्या मोक्षशिल्पविद्यासम्पादनोद्योगे आ निषीदत। इति ऋ० १।५।१ भाष्ये द०।