Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1641
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

उ꣡द्गा आ꣢꣯ज꣣द꣡ङ्गि꣢रोभ्य आ꣣वि꣢ष्कृ꣣ण्व꣡न्गुहा꣢꣯ स꣣तीः꣢ । अ꣣र्वा꣡ञ्चं꣢ नुनुदे व꣣ल꣢म् ॥१६४१॥

स्वर सहित पद पाठ

उत् । गाः । आ꣣जत् । अ꣡ङ्गि꣢꣯रोभ्यः । आ꣣विः꣢ । आ꣣ । विः꣢ । कृ꣣ण्व꣢न् । गु꣡हा꣢꣯ । स꣣तीः꣢ । अ꣢र्वा꣡ञ्च꣢म् । नु꣣नुदे । वल꣢म् ॥१६४१॥


स्वर रहित मन्त्र

उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः । अर्वाञ्चं नुनुदे वलम् ॥१६४१॥


स्वर रहित पद पाठ

उत् । गाः । आजत् । अङ्गिरोभ्यः । आविः । आ । विः । कृण्वन् । गुहा । सतीः । अर्वाञ्चम् । नुनुदे । वलम् ॥१६४१॥

सामवेद - मन्त्र संख्या : 1641
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
(इन्द्रः) बलवान् जीवात्मा (अर्वाञ्चम्) स्वाभिमुखमागतम्(वलम्) पूर्वमन्त्रोक्तम् आवरकं विघ्नसमूहम् (नुनुदे) पराङ्नुदति, प्रक्षिपति। (गुहा सतीः) गुहायां विद्यमानाः, प्रच्छन्नाः। [गुहा इत्यत्र ‘सुपां सुलुक्०’। अ० ७।१।३९ इति सप्तम्या लुक्।] (गाः) अध्यात्मप्रकाशरश्मीन् (अङ्गिरोभ्यः) प्राणायामाभ्यासिभ्यः (उद् आजत्) उत्प्रापयति ॥३॥

भावार्थः - यैर्विघ्नजालैः परिवृता योगाभ्यासिनो विवेकख्यातिप्रकाशं परमात्मप्रकाशं वा नाधिगन्तुं पारयन्ति तान् विघ्नान् प्रयत्नशीलो जीवात्मा परमात्मकृपया पराजित्य लक्ष्यं प्राप्तुं सफलो जायते ॥३॥

इस भाष्य को एडिट करें
Top