Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1644
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
शि꣡क्षा꣢ ण इ꣣न्द्र꣢꣫ राय आ पु꣣रु꣢ वि꣣द्वा꣡ꣳ ऋ꣡चीषम । अ꣡वा꣢ नः꣣ पा꣢र्ये꣣ ध꣡ने꣢ ॥१६४४॥
स्वर सहित पद पाठशि꣡क्ष꣢꣯ । नः꣣ । इन्द्र । रायः꣢ । आ । पु꣣रु꣢ । वि꣣द्वा꣢न् । ऋ꣣चीषम । अ꣡व꣢꣯ । नः꣣ । पा꣡र्ये꣢꣯ । ध꣡ने꣢꣯ ॥१६४४॥
स्वर रहित मन्त्र
शिक्षा ण इन्द्र राय आ पुरु विद्वाꣳ ऋचीषम । अवा नः पार्ये धने ॥१६४४॥
स्वर रहित पद पाठ
शिक्ष । नः । इन्द्र । रायः । आ । पुरु । विद्वान् । ऋचीषम । अव । नः । पार्ये । धने ॥१६४४॥
सामवेद - मन्त्र संख्या : 1644
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मजीवात्मानौ प्रार्थयते।
पदार्थः -
हे (ऋचीषम) ऋगीशानां विदुषां मानयितः [चस्य कुत्वाभावः शकारस्य च मूर्धन्यादेशश्छान्दसः।] (इन्द्र) परमैश्वर्यवन् परमात्मन् जीवात्मन् वा ! (पुरु) बहु (विद्वान्) विज्ञानवान् त्वम् (नः) अस्मान् (रायः) भौतिकानि आध्यात्मिकानि चैश्वर्याणि (आ शिक्ष) आनीय प्रदेहि।[शिक्षतिर्दानकर्मा। निघं० ३।२०। ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति दीर्घः। संहितायां ‘णः’ इत्यत्र ‘पूर्वपदात्’ अ० ८।३।१०६ इति नकारस्य णत्वम्।] (पार्ये) मार्गस्य पारं गत्वा प्रापणीये (धने) ऐश्वर्ये निमित्ते (नः) अस्मान् (अव) रक्ष।[अत्रापि पूर्वोक्तनियमेन संहितायां दीर्घत्वम्] ॥३॥
भावार्थः - परमात्मनः प्रेरणया जीवात्मनश्च पुरुषार्थेन मनुष्या निर्धारितस्याध्वनः पारं गत्वा महैश्वर्याणि प्राप्तुं शक्नुवन्ति ॥३॥
इस भाष्य को एडिट करें