Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1676
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
4
इ꣣मे꣡ हि ते꣢꣯ ब्रह्म꣣कृ꣡तः꣢ सु꣣ते꣢꣫ सचा꣣ म꣢धौ꣣ न꣢꣫ मक्ष आ꣡स꣢ते । इ꣢न्द्रे꣣ का꣡मं꣢ जरि꣣ता꣡रो꣢ वसू꣣य꣢वो꣣ र꣢थे꣣ न꣢꣫ पाद꣣मा꣡ द꣢धुः ॥१६७६॥
स्वर सहित पद पाठइ꣣मे꣢ । हि । ते꣣ । ब्रह्मकृ꣡तः꣢ । ब्र꣣ह्म । कृ꣡तः꣢꣯ । सु꣣ते꣢ । स꣡चा꣢꣯ । म꣡धौ꣢꣯ । न । म꣡क्षः꣢꣯ । आ꣡स꣢꣯ते । इ꣡न्द्रे꣢꣯ । का꣡म꣢꣯म् । ज꣣रिता꣡रः꣢ । व꣣सूय꣡वः꣢ । र꣡थे꣢꣯ । न । पा꣡द꣢꣯म् । आ । द꣣धुः ॥१६७६॥
स्वर रहित मन्त्र
इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥१६७६॥
स्वर रहित पद पाठ
इमे । हि । ते । ब्रह्मकृतः । ब्रह्म । कृतः । सुते । सचा । मधौ । न । मक्षः । आसते । इन्द्रे । कामम् । जरितारः । वसूयवः । रथे । न । पादम् । आ । दधुः ॥१६७६॥
सामवेद - मन्त्र संख्या : 1676
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मोपासनाविषयमाह।
पदार्थः -
हे जगदीश ! (इमे हि) एते खलु (ते) तुभ्यम् (ब्रह्मकृतः) स्तोत्रपाठकर्तारः उपासकाः (सुते) उपासनायज्ञे (सचा) संभूय (आसते) उपविशन्ति, (मधौ न मक्षः) मधुमक्षिका यथा मधुगोलके तिष्ठन्ति। (वसूयवः) अध्यात्मधनेच्छुकाः (जरितारः) स्तोतारः (इन्द्रे) परमैश्वर्यशालिनि जगदीश्वरे त्वयि (कामम्) अभिलाषम् (आदधुः) आदधति, (वसूयवः) भौतिकधनाभिलाषिणो जनाः (रथे न) रथे यथा (पादम्) चरणम् आदधति ॥२॥२ अत्रोपमालङ्कारः ॥२॥
भावार्थः - मधुकृतो मधुमक्षिका यथा मधुगोलके तिष्ठन्ति तथैवोपासनाकर्तारो जना उपासनागृहे तिष्ठन्ति। यथा च भौतिकं धनधान्यादिकं स्थानान्तरादानेतुकामा जना रथे स्वपादं निदधति तथैव सत्याहिंसायोगैश्वर्यादिकामा जनाः परमात्मनि स्वकाममादधति ॥२॥
इस भाष्य को एडिट करें