Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1702
ऋषिः - विश्वामित्रः प्रागाथः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
तो꣣शा꣡ वृ꣢त्र꣣ह꣡णा꣢ हुवे स꣣जि꣢त्वा꣣ना꣡प꣢राजिता । इ꣣न्द्राग्नी꣡ वा꣢ज꣣सा꣡त꣢मा ॥१७०२॥
स्वर सहित पद पाठतो꣣शा꣢ । वृ꣣त्रह꣡णा꣢ । वृ꣣त्र । ह꣡ना꣢꣯ । हु꣣वे । सजि꣡त्वा꣢ना । स꣣ । जि꣡त्वा꣢꣯ना । अ꣡प꣢꣯राजिता । अ । प꣢राजिता । इन्द्राग्नी꣢ । इ꣣न्द्र । अग्नी꣡इति꣢ । वा꣣जसा꣡त꣢मा ॥१७०२॥
स्वर रहित मन्त्र
तोशा वृत्रहणा हुवे सजित्वानापराजिता । इन्द्राग्नी वाजसातमा ॥१७०२॥
स्वर रहित पद पाठ
तोशा । वृत्रहणा । वृत्र । हना । हुवे । सजित्वाना । स । जित्वाना । अपराजिता । अ । पराजिता । इन्द्राग्नी । इन्द्र । अग्नीइति । वाजसातमा ॥१७०२॥
सामवेद - मन्त्र संख्या : 1702
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ इन्द्राग्निनाम्ना ब्रह्मक्षत्रे प्रशंसति।
पदार्थः -
(तोशा२) तोशौ तेजस्विनौ वर्द्धकौ वा, (वृत्रहणा) पापहन्तारौ, (सजित्वाना) सह विजेतारौ, (अपराजिता) अपराजितौ, (वाजसातमा) बलस्य अतिशयेन दातारौ (इन्द्राग्नी) ब्रह्मक्षत्रे। [ब्रह्मक्षत्रे वा इन्द्राग्नी। कौ० ब्रा० १२।८।] अहम् (हुवे) आह्वयामि। [तोशा, वृत्रहणा, सजित्वाना, अपराजिता, वाजसातमा सर्वत्र ‘सुपां सुलुक्०।’ अ० ७।१।३९ इति द्वितीयाद्विवचनस्य आकारादेशः] ॥१॥३
भावार्थः - समष्टिरूपेण राष्ट्रे व्यष्टिरूपेण च व्यक्तौ विद्यमानेन प्रवृद्धनेन ब्रह्मबलेन क्षात्रबलेन च राष्ट्रं मानवश्च बाह्यानान्तरांश्च शत्रून् पराजित्य सदा विजयं लभते ॥१॥
इस भाष्य को एडिट करें