Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1704
ऋषिः - विश्वामित्रः प्रागाथः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
इ꣡न्द्रा꣢ग्नी नव꣣तिं꣡ पुरो꣢꣯ दासपत्नीरधूनुतम् । साकमेकेन कर्मणा ॥१७०४॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नी꣡इति꣢ । न꣣वति꣢म् । पु꣡रः꣢꣯ । दा꣣स꣡प꣢त्नीः । दा꣣स꣢ । प꣣त्नीः । अ꣣धूनुतम् । सा꣣क꣢म् । ए꣡के꣢꣯न । क꣡र्म꣢꣯णा ॥१७०४॥
स्वर रहित मन्त्र
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । साकमेकेन कर्मणा ॥१७०४॥
स्वर रहित पद पाठ
इन्द्राग्नी । इन्द्र । अग्नीइति । नवतिम् । पुरः । दासपत्नीः । दास । पत्नीः । अधूनुतम् । साकम् । एकेन । कर्मणा ॥१७०४॥
सामवेद - मन्त्र संख्या : 1704
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - तृतीया ऋग् उत्तरार्चिके १५७६ क्रमाङ्के परमात्मजीवात्मविषये व्याख्यातपूर्वा। अत्र ब्रह्मक्षत्रविषय उच्यते।
पदार्थः -
हे (इन्द्राग्नी) ब्राह्मणक्षत्रियौ ! (एकेन) अद्वितीयेन (कर्मणा) पुरुषार्थेन (साकम्) युगपत्, युवाम् (दासपत्नीः) दासाः उपक्षयितारः कामक्रोधादयोऽधार्मिका दुष्टजना वा पतयः स्वामिनो यासां ताः (नवतिं पुरः) नवतिसंख्यका अपि शत्रुनगरीः (अधूनुतम्) कम्पयतम्। [धूञ् कम्पने विध्यर्थे लङ्]॥३॥२
भावार्थः - ब्राह्मणैर्विद्याया ब्रह्मवर्चसस्य च प्रसारं कृत्वा क्षत्रियैश्च शत्रुभ्यो राष्ट्ररक्षां विधाय राष्ट्रमुन्नेतव्यम् ॥३॥
इस भाष्य को एडिट करें