Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1721
ऋषिः - देवातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
6

य꣡था꣢ गौ꣣रो꣢ अ꣢पा꣣ कृ꣣तं꣢꣫ तृष्य꣣न्ने꣡त्यवेरि꣢꣯णम् । आ꣣पित्वे꣡ नः꣢ प्रपि꣣त्वे꣢꣫ तूय꣣मा꣡ ग꣢हि꣣ क꣡ण्वे꣢षु꣣ सु꣢꣫ सचा꣣ पि꣡ब꣢ ॥१७२१॥

स्वर सहित पद पाठ

य꣡था꣢꣯ । गौ꣣रः꣢ । अ꣣पा꣢ । कृ꣣त꣢म् । तृ꣡ष्य꣢꣯न् । ए꣡ति꣢꣯ । अ꣡व꣢꣯ । इ꣡रि꣢꣯णम् । आ꣣पित्वे꣢ । नः꣣ । प्रपित्वे꣢ । तू꣡य꣢꣯म् । आ । ग꣣हि । क꣡ष्वे꣢꣯षु । सु । स꣡चा꣢꣯ । पि꣡ब꣢꣯ ॥१७२१॥


स्वर रहित मन्त्र

यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥१७२१॥


स्वर रहित पद पाठ

यथा । गौरः । अपा । कृतम् । तृष्यन् । एति । अव । इरिणम् । आपित्वे । नः । प्रपित्वे । तूयम् । आ । गहि । कष्वेषु । सु । सचा । पिब ॥१७२१॥

सामवेद - मन्त्र संख्या : 1721
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
(यथा) येन प्रकारेण (तृष्यन्) पिपासितः सन् (गौरः) गौरमृगः (इरिणम्) मरुस्थलम् (अव) अवहाय (अपा कृतम्) जलेन पूर्णं सरोवरम् (एति) गच्छति, तथैव हे विद्यार्थिन् ! (नः) गुरूणाम् अस्माकम् (आपित्वे) सम्बन्धे (प्रपित्वे) प्राप्ते सति त्वम् अस्मत्सन्निधौ (तूयम्) शीघ्रम् (आ गहि) आगच्छ, किञ्च (कण्वेषु) मेधाविनाम् अस्माकं सान्निध्ये (सचा) अन्यैः सहाध्यायिभिः सह मिलित्वा (सु पिब) सम्यग् लौकिकविद्यारसम् अध्यात्मविद्यारसं च आस्वादय ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थः - यथा पिपासार्तो मृगो जलविहीनं प्रदेशमपहाय जलप्रचुरं प्रदेशं गच्छति तथैव विद्यापिपासवो जना मूर्खसङ्गं विहाय विद्वत्सङ्गतिं कुर्युः ॥१॥

इस भाष्य को एडिट करें
Top