Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1739
ऋषिः - वसुश्रुत आत्रेयः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
9

सो꣢ अ꣣ग्नि꣡र्यो वसु꣢꣯र्गृ꣣णे꣢꣫ सं यमा꣣य꣡न्ति꣢ धे꣣न꣡वः꣢ । स꣡म꣢꣯र्वन्तो रघु꣣द्रु꣢वः꣣ स꣡ꣳ सु꣢जा꣣ता꣡सः꣢ सू꣣र꣢य꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१७३९॥

स्वर सहित पद पाठ

सः꣢ । अ꣣ग्निः꣢ । यः । व꣡सुः꣢꣯ । गृ꣣णे꣢ । सम् । यम् । आ꣣य꣡न्ति꣢ । आ꣣ । य꣡न्ति꣢꣯ । धे꣣न꣡वः꣢ । सम् । अ꣡र्व꣢꣯न्तः । र꣣घुद्रु꣡वः꣢ । र꣣घु । द्रु꣡वः꣢꣯ । सम् । सु꣣जाता꣡सः꣢ । सु꣣ । जाता꣡सः꣢ । सू꣣र꣡यः꣢ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१७३९॥


स्वर रहित मन्त्र

सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः । समर्वन्तो रघुद्रुवः सꣳ सुजातासः सूरय इषꣳ स्तोतृभ्य आ भर ॥१७३९॥


स्वर रहित पद पाठ

सः । अग्निः । यः । वसुः । गृणे । सम् । यम् । आयन्ति । आ । यन्ति । धेनवः । सम् । अर्वन्तः । रघुद्रुवः । रघु । द्रुवः । सम् । सुजातासः । सु । जातासः । सूरयः । इषम् । स्तोतृभ्यः । आ । भर ॥१७३९॥

सामवेद - मन्त्र संख्या : 1739
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
(सः) स एव (अग्निः) अग्निशब्दवाच्यो जगदीश्वरोऽस्ति, (यः वसुः) यः सर्वाच्छादकः सर्वव्यापको वर्तते। [वस्ते आच्छादयति सर्वं स वसुः।] तमहम् (गृणे) स्तौमि, (यम् धेनवः) स्तोतॄणां वाचः। [धेनुरिति वाङ्नाम निघं० १।११।] (समायन्ति) सम्प्राप्नुवन्ति। (रघुद्रुवः) शीघ्रगामिनः (अर्वन्तः) पृथिवीचन्द्रादयो लोकाः (सम्) समायन्ति सम्प्राप्नुवन्ति, (सुजातासः) सुप्रसिद्धाः (सूरयः) विद्वांसः (सम्) समायन्ति, सम्प्राप्नुवन्ति। हे अग्ने जगदीश्वर ! त्वम् (स्तोतृभ्यः) त्वद्गुणकर्मस्वभावकीर्तनपरेभ्यो जनेभ्यः (इषम्) अभीष्टम् अभ्युदयनिःश्रेयसरूपं फलम् (आ भर) आहर ॥३॥२

भावार्थः - गावोऽश्वाः मनुष्याः सूर्यचन्द्रनक्षत्रपृथिवीमङ्गलबुधबृहस्पत्यादयो लोकाः नद्यः पर्वताः समुद्रा निर्झरा वृक्षा वीरुधः सर्वेऽपि स्वान् स्वान् गुणान् यस्माद् विन्दन्ति स एवाग्निशब्दवाच्यो जगदीश्वरोऽस्ति ॥३॥

इस भाष्य को एडिट करें
Top