Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 174
ऋषिः - बिन्दुः पूतदक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
15

अ꣢स्ति꣣ सो꣡मो꣢ अ꣣य꣢ꣳ सु꣣तः꣡ पि꣢꣯बन्त्यस्य म꣣रु꣡तः꣢ । उ꣣त꣢ स्व꣣रा꣡जो꣢ अ꣣श्वि꣡ना꣢ ॥१७४॥

स्वर सहित पद पाठ

अ꣡स्ति꣢꣯ । सो꣡मः꣢꣯ । अ꣣य꣢म् । सु꣣तः꣢ । पि꣡ब꣢꣯न्ति । अ꣣स्य । मरु꣡तः꣢ । उ꣣त꣢ । स्व꣣रा꣡जः꣢ । स्व꣣ । रा꣡जः꣢꣯ । अ꣣श्वि꣡ना꣢ ॥१७४॥


स्वर रहित मन्त्र

अस्ति सोमो अयꣳ सुतः पिबन्त्यस्य मरुतः । उत स्वराजो अश्विना ॥१७४॥


स्वर रहित पद पाठ

अस्ति । सोमः । अयम् । सुतः । पिबन्ति । अस्य । मरुतः । उत । स्वराजः । स्व । राजः । अश्विना ॥१७४॥

सामवेद - मन्त्र संख्या : 174
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment

पदार्थः -
इन्द्रदेवताकत्वाद् ऋचः हे इन्द्र इति सम्बोधनीयम्। हे इन्द्र मदीय आत्मन् ! (अयम्) एषः (सोमः) भक्तिरसः, ज्ञानरसः, कर्मरसः, वीरतारसः, सेवारसो वा (सुतः) अभिषुतः (अस्ति) वर्तते। (मरुतः) शरीरे प्राणाः राष्ट्रे च वीरक्षत्रियाः, (उत) अपि च (स्वराजः) स्वतेजसा राजन्ते इति स्वराजः, शरीरे मनोबुद्धिचित्ताहंकाराः, राष्ट्रे च स्वकीयब्रह्मवर्चसेन देदीप्यमानाः ब्राह्मणाः, (अश्विना) अश्विनौ, शरीरे स्वस्वविषयव्यापिनौ ज्ञानेन्द्रियकर्मेन्द्रियरूपौ, राष्ट्रे कृषिव्यापारशिल्पव्यापिनौ वैश्यशिल्पकारौ च (अस्य) पूर्वोक्तस्य रसस्य (पिबन्ति) यथायोग्यं पानं कुर्वन्ति ॥१०॥ अत्र श्लेषालङ्कारः ॥१०॥

भावार्थः - शरीरे मनोबुद्ध्यात्मप्राणेन्द्रियरूपा राष्ट्रे च ब्रह्मक्षत्रियविट्शिल्परूपा देवा यथायोग्यं भक्तिज्ञानकर्मवीरतासेवादिसोमरसानां पानं कृत्वैव जीवनसंग्रामे सफला जायन्ते ॥१०॥ अत्रेन्द्राख्यं परमेश्वरं प्रति सोमाभिषवणात्, तन्महत्त्ववर्णनात्, ततः समृद्धिमेधादिप्रार्थनात्, तदर्चनार्थं प्रेरणात्, तदधीनानाम् इतरेषां दैहिकराष्ट्रियदेवानां चापि सोमपानवर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थ्येन सह संगतिरस्तीति विजानीत ॥ इति द्वीतीये प्रपाठके द्वितीयार्धे तृतीया दशतिः। इति द्वितीयाध्याये षष्ठः खण्डः।

इस भाष्य को एडिट करें
Top