Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1749
ऋषिः - कुत्स आङ्गिरसः
देवता - उषाः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
7
इ꣣द꣢꣫ꣳ श्रेष्ठं꣣ ज्यो꣡ति꣢षां꣣ ज्यो꣢ति꣣रा꣡गा꣢च्चि꣣त्रः꣡ प्र꣢के꣣तो꣡ अ꣢जनिष्ट꣣ विभ्वा꣢ । य꣢था꣣ प्र꣡सू꣢ता सवि꣣तुः꣢ स꣣वा꣢यै꣣वा꣢꣫ रात्र्यु꣣ष꣢से꣣ यो꣡नि꣢मारैक् ॥१७४९॥
स्वर सहित पद पाठइ꣣द꣢म् । श्रे꣡ष्ठ꣢꣯म् । ज्यो꣡ति꣢꣯षाम् । ज्यो꣡तिः꣢꣯ । आ । अ꣣गात् । चित्रः꣢ । प्र꣣केतः꣢ । प्र꣣ । केतः꣢ । अ꣣जनिष्ट । वि꣡भ्वा꣢꣯ । वि । भ्वा꣣ । य꣡था꣢꣯ । प्र꣡सू꣢꣯ता । प्र । सू꣢ता । सवितुः꣢ । स꣣वा꣡य꣢ । ए꣣व꣢ । रा꣡त्री꣢꣯ । उ꣣ष꣡से꣢ । यो꣡नि꣢꣯म् । आ꣣रैक् ॥१७४९॥
स्वर रहित मन्त्र
इदꣳ श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा । यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् ॥१७४९॥
स्वर रहित पद पाठ
इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । आ । अगात् । चित्रः । प्रकेतः । प्र । केतः । अजनिष्ट । विभ्वा । वि । भ्वा । यथा । प्रसूता । प्र । सूता । सवितुः । सवाय । एव । रात्री । उषसे । योनिम् । आरैक् ॥१७४९॥
सामवेद - मन्त्र संख्या : 1749
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - अथोषर्दृष्टान्तेनाध्यात्मिकीं प्रभां वर्णयति।
पदार्थः -
(इदम्) एतत् (ज्योतिषाम्) अग्निविद्युदादीनां मध्ये (श्रेष्ठम्) प्रशस्यतमम् (ज्योतिः) उषाः (आगात्) आगमत्। (चित्रः) अद्भुतः (विभ्वा) विभुः। [अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेराकारादेशः।] (प्रकेतः) प्रकाशः (अजनिष्ट) उत्पन्नोऽस्ति। (यथा) येन प्रकारेण (प्रसूता) उत्पन्ना एषा उषाः (सवितुः) आदित्यस्य (सवाय) उत्पत्तये भवति (एवा) एवम् (रात्री) निशा। [अत्र ‘रात्रेश्चाजसौ’ अ० ४।१।३९ इति रात्रिशब्दान्ङीप्।] (उषसे) उषसो जन्मार्थम् (योनिम्) अन्तरिक्षम् (आरैक्) अरिचत्। [रिचिर् विरेचने, लुङि ‘इरितो वा’ अ० ३।१।५७ इति च्लेर्वैकल्पिकेऽङि ‘अरिचत्, अरैक्षीत्’ इति प्राप्ते छान्दसश्च्लेर्लुक्] ॥१॥२ यास्काचार्यो मन्त्रमिममेवं व्याख्यातवान्—[इदं श्रेष्ठं ज्योतिषां ज्योतिरागमत्। चित्रं प्रकेतनं प्रज्ञाततमम् अजनिष्ट विभूततमम्। यथा प्रसूता सवितुः प्रसवाय रात्रिरादित्यस्य, एवं रात्र्युषसे योनिमरिचत् स्थानम्। निरु० ६।१९।]। अत्रोपमालङ्कारः स्वभावोक्तिश्च। ‘ज्योति’ इत्यस्यावृत्तौ यमकम्, ‘सवि, सवा’ इत्यत्र छेकानुप्रासः। प्राकृतिक्या उषसो वर्णनेनाध्यात्मिक्युषा व्यज्यते ॥१॥
भावार्थः - यथा रात्र्यन्धकारं समाप्य ज्योतिष्मत्युषा गगने प्रादुर्भवति ज्योतिष्मत्तरं सूर्यं चाविर्भावयति तथैवाविद्याया गाढं तमो विच्छिद्य ज्योतिष्मत्यध्यात्मप्रभा प्रादुर्भूय ज्योतिष्मत्तमां परमात्मप्रभां प्रकटयति ॥१॥
इस भाष्य को एडिट करें